________________
૨૧
अन्वय :- भद्रे ! सर्वथा ईदृक्षं मा कृथाः कुरुषे वा हि पुनः एनं न लप्स्यसे तत् साक्षिणां समक्षं कुरुष्व ।
समास :- समक्षम् - अक्ष्णोः समीपम् इति समक्षम् । (अव्य.भा.) तर्तश्च' साक्षिणः कृत्वा', सनिर्वेदं सुनन्दा' । नन्दनो धनगिरयेऽर्पितस्तेनाऽऽददे ३ च सः ॥४४॥ अन्वय :- तत: च साक्षिणः कृत्वा सुनन्दया धनगिरये नन्दनः सनिर्वेदम् अर्पितः तेन च सः आददे ।
२
समास :- (१) सनिर्वेदम् - निर्वेदेन सह वर्तते यद् तद् इति सनिर्वेदम्, तद् सनिर्वेदम् । (सह. ब. व्री.) सोऽर्भको धनगिरिणा', पात्रबन्धे' न्यधायि च । गृहीतसङ्केत' इव', विरराम " च रोदनात् ॥४५॥ अन्वय :- धनगिरिणा च सः अर्भकः पात्रबन्धे न्यधायि गृहीतसङ्केतः इव रोदनात् च विरराम ।
१०
पात्रबन्धे - वस्त्रमयपात्राधारे (लोके 'झोली' इति प्रसिद्धम् ।)
समास :- (१) पात्रबन्धे - पात्राणि बध्यन्तेऽस्मिन् इति पात्रबन्ध:, तस्मिन् पात्रबन्धे । (उप. त. पु.)
(२) गृहीतसङ्केतः - गृहीतः सङ्केतः येन सः इति गृहीतसङ्केतः । (समा. ब. व्री.)
ततः सुनन्दासदनांही तावात्तबालकौ । गुर्वाज्ञापालकौ भूयोऽपेयर्तुर्गुरुसन्निधौ ॥४६॥
३
अन्वय :- ततः सुनन्दासदनात् गुर्वाज्ञापालकौ आत्तबालकौ तौ ऋषी भूयः गुरुसन्निधौ अपेयतुः ।