________________
(३) तदुद्वाहमहोत्सवे - (A) तस्य उद्वाह: इति तदुद्वाह: । (ष. त. पु.)
(B) महाश्चासौ उत्सवश्च इति महोत्सवः । (वि.पू.क.)
१०.८
१३
(C) तदुद्वाहस्य महोत्सवः इति तदुद्वाहमहोत्सव:, तस्मिन् तदुद्वाहमहोत्सवे । (ष. त. पु.) इर्तश्च धनपालस्यै, महेभ्यस्य तु नन्दनों । सुनन्दचें धनगिरें यऽहं सोऽस्तु में पतिः ॥ १० ॥ अन्वय :- इतः च महेभ्यस्य धनपालस्य नन्दना सुनन्दा ऊचे अहं धनगिरेः देया तु सः मे पतिः अस्तु । नन्दना - पुत्री ।
समास :- (१) महेभ्यस्य - महाँश्चासौ इभ्यश्च इति महेभ्यः, तस्य महेभ्यस्य । (वि.पू.क.)
महेभ्यो धनपालोंऽपिं, स्वयंवरपरायणाम् । प्रददौं धनगिरयें, दीक्षामेपिं जिघृक्षवें ॥ ११ ॥ अन्वय :- महेभ्यः धनपालः अपि स्वयंवरपरायणां (तां) दीक्षां जिघृक्षवे अपि धनगरये प्रददौ ।
समास :- (१) महेभ्यः - पूर्ववत् ।
(२) स्वयंवरपरायणाम् – (A) स्वयं व्रियतेऽस्मिन् इति स्वयंवरः (उप.त.पु.) पुंनाम्नि घ: ५। ३ | १३० घ प्रत्ययः ।
(B) स्वयंवरे परायणा इति स्वयंवरपरायणा, तां स्वयंवरपरायणाम् । (स.त.पु.)
(३) जिघृक्षवे - ग्रहीतुम् इच्छुः इति जिघृक्षुः, तस्मै जिघृक्षवे | (इच्छार्थक सन् + उ प्रत्यय:)