________________
श्री परिशिष्ट पर्व
द्वादशः सर्गः सुहस्तिनोऽन्वयें वज्रस्वार्मी चॅ क्रमयोगतः । अर्भूत्प्रवचनाधारस्तत्कर्थाऽर्थं प्रपञ्च ॥ १ ॥
-
अन्वय :- अथ सुहस्तिनः अन्वये क्रमयोगतः प्रवचनाधारः वज्रस्वामी च अभूत् तत्कथा प्रपञ्च्यते ।
अन्वये - वंशे, 'अन्वयो जननं वंश:' इत्यभिधाने (५०३) । (१) वज्रस्वामी - वज्रश्चासौ स्वामी च इति वज्रस्वामी । (वि.उ.क.)
(२) क्रमयोगतः
समास :
-
क्रमस्य योगः इति क्रमयोगः,
तस्मात् क्रमयोगत: । (ष. त. पु.)
(३) प्रवचनाधारः
-
प्रवचनस्य आधार : इति
प्रवचनाधारः । (ष. त. पु.)
(४) तत्कथा तस्य कथा इति तत्कथा । (ष.त.पु.) इहैं जम्बूद्वीपें, प्राग्भरतार्धविभूषणम् । अवन्तिरिति देशोऽस्तिं, स्वर्गदेशीय ऋद्धिभिः ॥ २ ॥
अन्वय :- इह जम्बूद्वीपे एव प्राग्भरतार्धविभूषणम् ऋद्धिभिः स्वर्गदेशीयः अवन्तिः इति देश: अस्ति ।
समास :- (१) जम्बूद्वीपे - (A) जम्ब्वा (वृक्षेण) उपलक्षितः इति जम्बूपलक्षितः । (तृ.त.पु.)
(B) जम्बूपलक्षितः द्वीप : इति जम्बूद्वीप:, तस्मिन् जम्बूद्वीपे । (मं.प.लो.क.)