________________
-
(२) प्राग्भरतार्धविभूषणम् – (A) भरतस्य अर्धम् इति भरतार्धम् । (ष.त.पु.)
(B) प्राक् च तद् भरतार्द्ध च इति प्राग्भरतार्द्धम् । (वि.पू.क.)
(C) प्राग्भरतार्द्धस्य विभूषणम् इति प्राग्भरतार्द्धविभूषणम् । (ष. त. पु.) (३) स्वर्गदेशीयः - ईषद् असमाप्तः स्वर्ग: इति स्वर्गदेशीयः ।
"अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्" (७|३|११) इति देशीयर् प्रत्ययः ।
११
तत्र तुम्बवर्नमिति, विद्यते॑ सन्निवेशनम् । निवेशनैमिवँ श्रीणाम्, सदमपिं हर्षदम् ॥ ३ ॥
अन्वय :- तत्र श्रीणां निवेशनम् इव द्युसदाम् अपि हर्षदं तुम्बवनम् इति सन्निवेशनं विद्यते ।
निवेशनम् - स्थानम् "निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च" । इत्यभिधाने (९७२) ।
-
समास :- (१) तुम्बवनम् – (A) तुम्ब: प्रधानः यस्मिन् तद् इति तुम्बप्रधानम्। (समा.ब.व्री.)
(B) तुम्बप्रधानं वनम् इति तुम्बवनम् । (म.प.लो.क.)
(२) सदाम् - दिवि सीदन्ति इति द्युसद:, तेषां द्युसदाम् । (उप. त. पु.) क्विप् प्रत्ययः ।
।
(३) हर्षदम् – हर्षं ददाति इति हर्षदः, तं हर्षदम् । (उप. त. पु.) आतो डोऽह्वा० ५।१।७६ ड प्रत्ययः ।