________________
अन्वय :- अतिजडेषु अपि वज्रः अमोघवाचनः बभूव तद् नव्यम्
_अद्भुतं दृष्ट्वा सर्वः गच्छः विसिष्मिये । समास :- (१) अमोघवाचनः - (A) न मोघा इति अमोघा ।
(नञ्.त.पु.) (B) अमोघा वाचना यस्य सः इति अमोघवाचनः ।
(समा.ब.वी.) (२) अतिजडेषु - अतिशयेन जडाः इति अतिजडाः,
तेषु अतिजडेषु । (प्रादि.कर्म.) आलान्सिाधर्वः पूर्वमधीतानस्फुरानपि । संवादार्थमपृच्छंच, वज्रोऽप्याख्यत्तथैवे तान् ॥१८९॥ अन्वय :- साधवः पूर्वम् अधीतान् अपि अस्फुरान् आलापान्
___संवादार्थम् अपृच्छन् वज्रः अपि च तथैव तान् आख्यात् । समास :- (१) अस्फुरान्-न स्फुराः इति अस्फुराः, तान्
अस्फुरान् । (नञ्.त.पु.) (२) संवादार्थम् - संवादस्य अर्थम् इति संवादार्थम् ।
(ष.त.पु.) तावदेकवाचनया, वज्रात्ठुर्महर्षयः ।
अप्यनेकवाचनाभिर्यावन्न गुरु सन्निधौं ॥१९०॥ अन्वय :- महर्षयः गुरुसन्निधौ अनेकवाचनाभिः अपि यावत् न
पेठः तावत् वज्रात् एकवाचनया (पेठुः)। समास :- (१) एकवाचनया - एका वाचना इति एकवाचना, तया
एकवाचनया । (वि.पू.क.)