________________
८६
अन्वय :- गुर्वाज्ञा अस्ति इति वज्रः अपि निषद्यायाम् उपाविशत्
साधवः च आचार्यस्य इव तस्य विनयम् अकार्षुः । समास :- (१) गुर्वाज्ञा - गुरोः आज्ञा इति गुर्वाज्ञा । (ष.त.पु.) सर्वेषामपिं साधूनामानुपूर्व्या परिस्फुटान् । संक्रान्त्या वज्रलेपाभान्, वज्रोऽप्यालापर्कान्ददौं ॥१८६॥ अन्वय :- वज्रः अपि सर्वेषाम् अपि साधूनां संक्रान्त्या आनुपूर्व्या
परिस्फुटान् वज्रलेपाभान् आलापकान् ददौ । समास :- (१) आनुपूर्व्या - (A) पूर्वस्यानुक्रमेण इति अनुपूर्वम् ।
(अव्य.भा.) (B) अनुपूर्वस्य भावः कर्म वा आनुपूर्वी, तया
आनुपूर्व्या । (तद्धित) अ(अण्) + ई(ङी)। (२) वज्रलेपाभान् - (A) वज्रस्य लेपः इति वज्रलेपः ।
(ष.त.पु.) (B) वज्रलेपेन आभाः इति वज्रलेपाभाः, तान्
वज्रलेपाभान् । (तृ.त.पु.) ये अल्पमेधसस्तेऽपि, साधवोऽध्येतुमागमन् । उपचक्रमि, वज्रादादायाय वाचनाम् ॥१८७॥ अन्वय :- ये अल्पमेधसः ते साधवः अपि आगमन् वज्राद्
वाचनाम् आदाय आदाय अध्येतुम् उपचक्रमिरे । समास :- (१) अल्पमेधसः - अल्पा मेधा येषां ते इति
__ अल्पमेधसः । (समा.ब.वी.) अमोघवाचनो वजों, बभूवातिजडेज़पि । तन्नव्यमद्भुतं दृष्ट्वा , गर्छ: सर्वो विसिष्मिय ॥१८॥