________________
. ११२
पुनानः क्षमा विहारेणं, वज्रस्वामी महामुनिः । यत्र यत्रं ययौं तत्रं, तत्रं ख्यातिरभूदियम् ॥२४०॥ अन्वय :- विहारेण क्ष्मां पुनानः महामुनिः वज्रस्वामी यत्र यत्र ययौ
तत्र तत्र इयं ख्यातिः अभूत् । समास :- (१) वज्रस्वामी - पूर्ववत् ।
(२) महामुनिः - पूर्ववत् । अहो ! अस्योज्ज्वलं शीलमहौं ! लोकोत्तरं श्रुतम् । अहो ! सौभाग्यमनधर्मों ! लवणिमाऽद्भुतः ॥२४१॥ अन्वय :- अहो ! अस्य उज्ज्वलं शीलम् अहो ! लोकोत्तरं श्रुतम्
अहो ! अनघं सौभाग्यम् अहो ! अद्भुतः लवणिमा । समास :- (१) लोकोत्तरम् - लोकात् उत्तरम् इति लोकोत्तरम् ।
(पं.त.पु.) (२) सौभाग्यम् - पूर्ववत् । (३) अनघम् - नास्ति अघः यस्मिन् तद् इति अनघम् ।
(नञ्.ब.वी.) इतश्च पाटलीपुत्रे, धनों नाम महाधनः । श्रेष्ठी गुणगणश्रेष्ठों, बभूवै भुर्विं विश्रुतेः ॥२४२॥ अन्वय :- इतः च पाटलीपुत्रे भुवि विश्रुतः गुणगणश्रेष्ठः महाधनः
धनः नाम श्रेष्ठी बभूव। समास :- (१) महाधनः - महत् धनं यस्य सः इति महाधनः ।
(समा.ब.वी.)