________________
उ४ (D) अचलपुरविषयश्रियः विभूषणे इति अचलपुर
विषयश्री-विभूषणे । (ष. त. पु.) (२) प्रार्थिताभिधे - प्रार्थिता अभिधा ययोः ते इति
प्रार्थिताभिधे । (समा. ब. वी.) अन्तराले तयोर्नद्योरवात्सुः केऽपि तापसाः । पादलेपविदेकोऽभूत्, तेषां मध्ये च तापसः ॥७०॥ अन्वय :- तयोः नद्योः अन्तराले केऽपि तापसाः अवात्सुः तेषां
च मध्ये पादलेपविद् एकः तापस: अभूत् । समास :- (१) पादलेपविद् - (A) पादयोः लेपः इति पादलेपः ।
(ष.त.पु.) (B) पादलेपं वेत्ति इति पादलेपविद् । (उप.त.पु.)
क्विप् प्रत्ययः । विधाय' पादलेपं च, पादुके परिधाय च । जलेऽपि स्थलवत्पादौ, विन्यस्यन् सञ्चचार सः ॥७१॥ अन्वय :- पादलेपं च विधाय पादुके च परिधाय जले अपि
स्थलवत् पादौ विन्यस्यन् सः सञ्चचार । समास :- (१) पादलेपम् - पादलेप:-पूर्ववत्, तं पादलेपम् ।
(ष. त. पु.)
(२) स्थलवत् - स्थले इव इति स्थलवत् । (तद्धित) एवं च पादुकारू ढः, स नित्यं जलवर्त्मना । पुरे गतागतं" चक्रे, जनयन्विस्मयं जने ॥७२॥