________________
૩૫ अन्वय :- एवं च पादुकारूढः सः नित्यं जलवर्त्मना जने विस्मयं
जनयन् पुरे गतागतं चक्रे । समास :- (१) पादुकारूढः - पादुकयोः आरूढः इति पादुकारूढः ।
(स.त.पु.) (२) जलवम॑ना - (A) जलेन पूर्णम् इति जलपूर्णम् ।
(तृ. त. पु.) (B) जलपूर्ण वर्त्म इति जलवम, तेन जलवम॑ना । ___(म. प. लो. क.) (३) गतागतम् - गतं च तद् आगतं च इति गतागतम्,
___ तद् गतागतम् । (वि. उभ. क.) न हि वो दर्शने कोऽपि, प्रभावोऽस्ति यथा हिनः । श्रमणोपासकानेवम्, प्रजहासे से तापसः ॥७३॥ अन्वय :- हि वः दर्शने कोऽपि प्रभावः न अस्ति यथा हि नः एवं
स तापसः श्रमणोपासकान् प्रजहास । समास :- (१) श्रमणोपासकान् - श्रमणान् उपासते इति श्रमणो
पासकाः, तान् श्रमणोपासकान् । (उप. त. पु.) तत्राँऽऽगादाँर्यशमिताचार्यों वज्रस्य मातुलः । विहारक्रमयोगेन, योगसिद्धो महातपाः ॥७४॥ अन्वय :- योगसिद्धः महातपाः वज्रस्य मातुलः आर्यशमिताचार्यः
विहारक्रमयोगेन तत्र आगात् । समास :- (१) आर्यशमिताचार्यः - (A) आर्यशमितः नाम यस्य
सः इति आर्यशमितनामा । (समा.ब.वी.) (B) आर्यशमितनामा आचार्यः इति
आर्यशमिताचार्यः । (म.प.लो.क.)