________________
मास: मन्तानि जपणेषु बहराभरेर
(३) महीपतिम् - मह्याः पतिः इति महीपतिः, तं
महीपतिम् । (ष.त.पु.)
(४) पुष्पादि - पूर्ववत् । पुष्पापणेषु सर्वेषु, बहुमूल्यप्रदा अपि । अर्हद्भक्तास्ततः पुष्पवृन्तान्यपि ने लेभिरें ॥३४०॥ अन्वय :- ततः सर्वेषु पुष्पापणेषु बहुमूल्यप्रदाः अपि अर्हद्भक्ताः
___पुष्पवृन्तानि अपि न लेभिरे। समास :- (१) पुष्पापणेषु - पुष्पाणाम् आपणाः इति पुष्पापणाः,
तेषु पुष्पापणेषु । (ष.त.पु.) (२) बहुमूल्यप्रदाः - (A) बहूनि च तानि मूल्यानि च इति
बहुमूल्यानि । (वि.पू.क.) (B) बहुमूल्यानि प्रददति इति बहुमूल्यप्रदाः ।
__ (उप.त.पु.) (३) अर्हद्भक्ताः - अर्हतः भक्ताः इति अर्हद्भक्ताः ।
(ष.त.पु.) (४) पुष्पवृन्तानि - पुष्पाणां वृन्तानि इति पुष्पवृन्तानि,
___तानि पुष्पवृन्तानि। (ष.त.पु.) उपस्थिते पर्युषणापर्वण्यर्हदुपासकोः । ततों रुदन्तौ दीनास्याँ , वज्रषिमुपतस्थिरें ॥३४१॥ अन्वय :- ततः पर्युषणापर्वणि उपस्थिते दीनास्याः रुदन्तः अहंदु
पासकाः वर्षिम् उपतस्थिरे। समास :- (१) पर्युषणापर्वणि- (A) पर्युषणा नाम यस्य तद् इति
पर्युषणानाम । (समा.ब.वी.)