________________
अन्वय :- यावद् आर्याप्रतिश्रये वज्रः अष्टवर्षः अभवत् ततः
हर्षभाग्भिः महर्षिभिः वसत्याम् आनिन्ये। समास :- (१) अष्टवर्षः - अष्टौ वर्षाणि यस्य सः इति अष्टवर्षः ।
(संख्या.ब.वी.) (२) आर्याप्रतिश्रये - आर्यायाः प्रतिश्रयः इति
आर्याप्रतिश्रयः, तस्मिन् आर्याप्रतिश्रये । (ष.त.पु.) (३) हर्षभाग्भिः - हर्षं भजन्ते इति हर्षभाजः, तैः ___ हर्षभाग्भिः । (उप.त.पु.)
(४) महर्षिभिः - पूर्ववत् । अन्यदा वज्रगुरवः, प्रत्यवन्ती प्रतस्थिरें । धाराधरोऽखण्डधारमन्तराले ववर्ष च ॥१३९॥ अन्वय :- अन्यदा वज्रगुरवः अवन्ती प्रति प्रतस्थिरे अन्तराले च
धाराधरः अखण्डधारं ववर्ष । समास :- (१) वज्रगुरवः - (A) वज्रेण युक्ताः इति वज्रयुक्ताः ।
(तृ.त.पु.) (B) वज्रयुक्ताः गुरवः इति वज्रगुरवः ।
(म.प.लो.क.) (२) धाराधरः - धारां धरति इति धाराधरः । (उप.त.पु.) (३) अखण्डधारम् - (A) नास्ति खण्डं यस्यां सा इति
अखण्डा । (नञ्.ब.वी.) (B) अखण्डा धारा यस्मिन् यथा स्यात् तथा इति
अखण्डधारम् तद् अखण्डधारम् । (समा.ब.वी.)