________________
૧૬૨ (B) धनकणैः आढ्या इति धनकणाढ्या, तस्यां
धनकणाढ्यायाम् । (तृ.त.पु.) (२) सुभिक्षम् - भिक्षायाः समृद्धिः इति सुभिक्षम् ।
(अव्य.भा.)
(३) बुद्धभक्तः - बुद्धस्य भक्तः इति बुद्धभक्तः । (ष.त.पु.) तस्यां जैनाच बौद्धोच, स्पर्धमानाः परस्परम् । चक्रिरें देवपूजादि, जैनैबौद्धास्तु जिग्यिरें ॥३३६॥ अन्वय :- तस्यां परस्परं स्पर्धमानाः जैनाः च बौद्धाः च देव
पूजादि चक्रिरे तु जैनैः बोद्धाः जिग्यिरे । समास :- (१) जैनाः - जिनः देवता येषाम् इति जैनाः । (तद्धित)
(२) बौद्धा:- बुद्धः देवता येषाम् इति बौद्धाः । (तद्धित) (३) देवपूजादि - (A) देवस्य पूजा इति देवपूजा ।
(ष.त.पु.) (B) देवपूजा आदौ यस्मिन् तद् इति देवपूजादि,
तद् देवपूजादि । (व्यधि.ब.वी.) (४) जैनैः - जैनाः पूर्ववत् तैः जैनैः। जैना हि यद्यत्पुष्पादि, पूजोपकरणं पुरें । ददृशुंस्तत्तदैधिकमूल्यदानेन चिक्रियुः ॥३३७॥ अन्वय :- पुरे हि जैनाः यद् यद् पुष्पादि पूजोपकरणं ददृशुः तद्
तद् अधिकमूल्यदानेन चिक्रियुः । समास :- (१) जैनाः - पूर्ववत् ।