SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૧૪૮ तर्दा तत्र प्रववृते, दुर्भिक्षमतिभीषण । बभूव भोजनश्रद्धानुबन्धविधुरौं जनः ॥३१२॥ अन्वय :- तदा तत्र अतिभीषणं दुर्भिक्षं प्रववृते जनः भोजनश्रद्धानु बन्धविधुरः बभूव। समास :- (१) दुर्भिक्षम् - भिक्षायाः अभावः इति दुर्भिक्षम् । (अव्य.भा.) (२) अतिभीषणम् - अतिशयेन भीषणम् इति अतिभीषणम् । (प्रा.क.) (३) भोजनश्रद्धानुबन्धविधुरः - (A) भोजनस्य श्रद्धा इति भोजनश्रद्धा । (ष.त.पु.) (B) भोजनश्रद्धायाः अनुबन्धः इति भोजनश्रद्धानु बन्धः । (ष.त.पु.) (C) भोजनश्रद्धानुबन्धात् विधुरः इति भोजनश्रद्धा नुबन्धविधुरः । (पं.त.पु.) गृहिणामन्नदारिद्रयादल्पभोजनकारिणाम् । बभूवं नित्यमप्यूनोदरता यतिनामिव ॥३१३॥ अन्वय :- अन्नदारिद्र्यात् अल्पभोजनकारिणां यतिनाम् इव गृहिणाम् ___अपि नित्यम् ऊनोदरता बभूव । समास :- (१) अन्नदारिद्रयात् - अन्नस्य दारिद्र्यम् इति अन्न दारिद्र्यम्, तस्मात् अन्नदारिद्र्यात् । (ष.त.पु.) (२) अल्पभोजनकारिणाम् – (A) अल्पं च तद् भोजनं च इति अल्पभोजनम् । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy