________________
२५
૧૪૭ अन्वय :- इयं विद्या मया एव धरणीया, कस्यचित् न देया, हि अतः
परम् अन्ये अल्पर्द्धयः अल्पसत्त्वाः च भाविनः । समास :- (१) अल्पर्द्धयः - अल्पा ऋद्धिः येषां ते इति
अल्पर्द्धयः । (समा.ब.वी.) (२) अल्पसत्त्वाः - अल्पं सत्त्वं येषां ते इति
अल्पसत्त्वाः । (समा.ब.वी.) अन्यदा पूर्वदिग्भांगाच्छ्रीव॑जोऽगीन्महामुनिः । सूर्यो मकरसङ्क्रान्ताविवापाच्याँ उदग्दिशम् ॥३११॥ अन्वय :- अन्यदा मकरसङ्क्रान्तौ सूर्यः अपाच्या (उदग्दिशम्) इव
महामुनिः श्रीवज्रः पूर्वदिग्भागाद् उदग्दिशम् अगाद् । समास :- (१) पूर्वदिग्भागाद् - (A) पूर्वा च सा दिक् च इति
पूर्वदिक् । (वि.पू.क.) (B) पूर्वदिशः भागः इति पूर्वदिग्भागः, तस्मात्
पूर्वदिग्भागात् । (ष.त.पु.) (२) श्रीवज्रः - पूर्ववत् । (३) महामुनिः - पूर्ववत्। (४) मकरसङ्क्रान्तौ - मकरस्य संक्रान्तिः यस्मिन् सः
इति मकरसङ्क्रान्तिः, तस्मिन् मकरसङ्क्रान्तौ ।
(व्यधि.ब.वी.) (५) उदग्दिशम्- उदक् चासौ दिक् च इति उदग्दिक्,
ताम् उदग्दिशम् । (वि.पू.क.)