________________
७८
(C) प्रावृडम्भोधरस्य ध्वनिः इव ध्वनि: यस्य सः इति प्रावृडम्भोधरध्वनि: । (उप.ब.व्री.)
एकादशानामङ्गानामपिं पूर्वगतस्य च । वाचनां पुर्नरागच्छन्ं, गुरुः शुश्राव दूरतः ॥ १६८ ॥ अन्वय :- पुनः आगच्छन् गुरुः दूरतः एकादशानाम् अङ्गानां पूर्वगतस्य अपि च वाचनां शुश्राव ।
समास :- (१) पूर्वगतस्य पूर्ववत् । - वसतिद्वारंमायातः श्रुत्वा गहगहारवम् । आचार्योऽचिन्तयेत्किं नुं, सार्धवः शीघ्रमार्गताः ॥ १६९॥
अन्वय :- वसतिद्वारम् आयात: आचार्य: गहगहारवं श्रुत्वा अचिन्तयत् किं नु साधवः शीघ्रम् आगताः ?
समास :- (१) वसतिद्वारम् - वसते: द्वारम् इति वसतिद्वारम् तद् वसतिद्वारम् । (ष.त.पु.)
(२) गहगहारवम् - गह गह आरवः इति गहगहारवः, तं गहगहारवम् । (वि.पू.क.)
अस्मदागमनमंमी, पालयन्तों महर्षयः । स्वाध्यायं कुर्वतें भिक्षामुपादाय समागताः ॥ १७०॥ अन्वय :- अस्मदागमनं पालयन्तः भिक्षाम् उपादाय समागता: अमी महर्षयः स्वाध्यायं कुर्वते ।
समास :- (१) अस्मदागमनम् - अस्माकम् आगमनम् इति अस्मदागमनम्, तद् अस्मदागमनम् । (ष. त.पु.)