________________
૧૨૪
(२) स्वसदनम् - स्वस्य सदनम् इति स्वसदनम् तद्
स्वसदनम् । (ष.त.पु.) (३) मध्येशुद्धान्तम् - शुद्धान्तस्य मध्यम् इति मध्ये
___शुद्धान्तम्, तद् मध्येशुद्धान्तम् । (अव्य.भा.) बाह्योद्याने कृतावासों , वज्रस्वाम्यर्यि ! सुभ्रवः ! ।
माँऽद्ये वन्दितों धर्मदेशनाक्षीरसागरः ॥२६६॥ अन्वय :- अयि सुभ्रवः ! अद्य मया बाह्योद्याने कृतावासः धर्म
देशनाक्षीरसागरः वज्रस्वामी वन्दितः । समास :- (१) बाह्योद्याने - (A) बहिर्भवम् इति बाह्यम् । (तद्धित)
(B) बाह्यञ्च तद् उद्यानं च इति बाह्योद्यानम्,
तस्मिन् बाह्योद्याने । (वि.पू.क.) (२) कृतावासः - कृतः आवासः येन सः इति
कृतावासः । (समा.ब.वी.) (३) वज्रस्वामी - पूर्ववत् । (४) सुभ्रवः - सुष्ठ ध्रुवौ यासां ताः इति सुभ्रवः,
तत्सम्बोधनं सुभ्रवः ! । (सु.पू.क.) (५) धर्मदेशनाक्षीरसागरः -(A) धर्मदेशना - पूर्ववत्। (B) धर्मदेशना एव क्षीरम् इति धर्मदेशनाक्षीरम् ।
(अव.पू.क.) (C) धर्मदेशनाक्षीरस्य सागरः इति धर्मदेशनाक्षीर
सागरः । (ष.त.पु.)