________________
अन्वय
श्वस
त्वा
૧૭૦ समाश्वसत हैं श्राद्धाः!, यतिष्ये वः सुतेजसें । इत्युक्त्वा भगवान् व्योमन्युत्पपात सुपर्णवत् ॥३५२॥ अन्वय :- हे श्राद्धाः ! समाश्वसत वः सुतेजसे यतिष्ये इति उक्त्वा
भगवान् व्योमनि सुपर्णवत् उत्पपात । समास :- (१) सुतेजसे- शोभनं तेजः इति सुतेजः, तस्मै सुतेजसे।
___(सु.पू.क.)
(२) सुपर्णवत् - सुपर्णः इव इति सुपर्णवत् । (तद्धित) स्वामी निमेषमात्रेणार्थागान्माहेश्वरी पुरीम् । अवातारीदुंपवनें, चैकस्मिन्विस्मयावहैं ॥३५३॥ अन्वय :- अथ स्वामी निमेषमात्रेण माहेश्वरी पुरीम् आगात् विस्मयावहे
च एकस्मिन् उपवने अवातारीद् । समास :- (१) निमेषमात्रेण - निमेषः एव इति निमेषमात्रम्, तेन
निमेषमात्रेण । (मयू.कर्म.) (२) उपवने - उपवनम् - पूर्ववत्, तस्मिन् उपवने। (३) विस्मयावहे - विस्मयम् आवहति इति विस्मयावहम्,
तस्मिन् विस्मयावहे । (उप.त.पु.) हुताशनाभिधानस्य, देवस्योपवनं च तत् । योऽभूमिकस्तत्रं, मित्रं धनगिरें: सें तुं ॥३५४॥ अन्वय :- तत् हुताशनाभिधानस्य देवस्य उपवनम् (आसीत्) तत्र च
तु यः आरामिकः सः धनगिरेः मित्रम् अभूत् ।