________________
उ७ तर्दाकाऽर्यशमितः, श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि, जगाद स्वानुपासकान् ॥७६॥ अन्वय :- तद् आकर्ण्य आर्यशमितः श्रुतज्ञाने स्फुरति अपि मति
__बलेन अपि ज्ञात्वा स्वान् उपासकान् जगाद । समास :- (१) श्रुतज्ञाने-श्रुतं च तद् ज्ञानं च इति श्रुतज्ञानम्,
तस्मिन् श्रुतज्ञाने । (वि. पू. क.) (२) मतिबलेन - मतेः बलम् इति मतिबलम्, तेन
मतिबलेन । (ष. त. पु.) नास्य काऽपि तपःशक्तिस्तापसस्य तपस्विनः । केनाप्यसौं प्रयोगेणं, प्रतारयति वोऽखिलान् ॥७७॥ अन्वय :- तपस्विनः अस्य तापसस्य काऽपि तपःशक्तिः न असौ
___केनापि प्रयोगेण वः अखिलान् प्रतारयति । समास :- (१) तपःशक्तिः - तपसः शक्तिः इति तपःशक्तिः ।
__ (ष.त.पु.) (२) तपस्विनः - तपः अस्ति यस्य तपस्वी, तस्य
तपस्विनः । (तद्धित) अस्तपोमाया. ७।२।४७ विन्
प्रत्ययः । यथा हि अकालपुष्पादि, दर्शितं कौतुकावहम् । तथैतदपि विज्ञानम्, न तपःशक्तिरीदृशी ॥७॥ अन्वय :- यथा हि कौतुकावहम् अकालपुष्पादि दर्शितं तथा एतद्
अपि विज्ञानम् ईदृशी तपःशक्तिः न।