________________
૧૧૯
(B) करुणारसस्य सागराः इति करुणारससागराः ।
(ष.त.पु.) (६) समताभाजः - समतां भजन्ते इति समताभाजः ।
(उप.त.पु.) । भजो विण् ५।१।१४६ विण् । (७) ममतोज्झिताः - ममतया उज्झिताः इति __ ममतोज्झिताः । (तृ.त.पु.)
(८) वज्रस्वामी - पूर्ववत् । पप्रच्छ चे क्षणं स्थित्वा, भगवन्तों महर्षयः । आख्यान्तु वर्जः किमयम्, किम किमसीविति ॥२५७॥ अन्वय :- क्षणं स्थित्वा च पप्रच्छ भगवन्तः ! महर्षयः ! किम् अयं
(वज्रः) किम् एष (वज्रः) किम् असौ वज्रः इति आख्यान्तु । समास :- (१) महर्षयः - पूर्ववत् । मुनयः प्रोचिरें राजन्!, वज्रस्यान्तिषदों वयम् । मा चिन्तयतमस्मासु,क्वार्कःक्वज्योतिरिङ्गणाः?॥२५८॥ अन्वय :- मुनयः प्रोचिरे राजन् ! वयं वज्रस्य अन्तिषदः क्व अर्कः
क्व ज्योतिरिङ्गणाः अस्मासु तं मा चिन्तय । ज्योतिरिङ्गणाः- खद्योताः । "खजूआ" इति लोके।
खद्योतो ज्योतिरिङ्गणः । इत्यभिधाने । (१२१३) समास :- (१) अन्तिषदः - अन्ति सीदन्ति इति अन्तिषदः ।
(उप.त.पु.) (२) ज्योतिरिङ्गणाः - ज्योतिः इव इङ्गन्ति इति
ज्योतिरिङ्गणाः । (उप.त.पु.),