________________
૬૪
(२) वणिग्मूर्ती: - वणिजां मूर्तयः इति वणिग्मूर्तयः, ताः वणिग्मूर्ती: । (ष.त.पु.)
उत्पर्याणितबद्धाश्ववृषभं दौष्टुम् । मण्डलीकृतशकटम्, सन्निवेशितकेणिकम् ॥१४२॥
1
जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् राद्धान्नोत्तीर्णपात्रीकम्ौं,भुञ्जानजनसङ्कुलम् ॥१४३॥
तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् ।
आवासं ते दिविषदों, वणिग्रूप विचक्रिरे ॥१४४॥
(त्रिभिर्विशेषकम् )
अन्वय :- वणिग्रूपाः ते दिविषदः उत्पर्याणितबद्धाश्ववृषभं चरदौष्ट्रकं मण्डलीकृतशकटं सन्निवेशितकेणिकं जवनच्छ्न्नविक्रेयवस्तुगोणीपरम्परं राद्धानोत्तीर्णपात्रीकं भुञ्जानजनसङ्कुलं तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् आवासं विचक्रिरे ।
"केणिका - वस्त्रकृतगृहम् " तम्बु इति भाषायाम् । केणिका पटकुट्यपि ॥६८१ ॥ गुणलयनिकार्या स्यात् । इत्यभिधाने । (६८२ )
समास :- (१) उत्पर्याणितबद्धाश्ववृषभम् – (A) उन्नतं पर्याणम्
इति उत्पर्याणम् । (प्रादि कर्म . )
(B) उत्पर्याणं कृताः इति उत्पर्याणिताः (नामधातु + क्त प्रत्यय)
(C) उत्पर्याणिताश्च ते बद्धाश्च इति उत्पर्याणितबद्धा: (वि.उभ.क.)