SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ सुगन्धिना यक्षकर्दमेन अचर्चयत् । समास :- (१) महीनाथ: - मह्या: नाथः इति महीनाथ: । (ष.त.पु.) (२) वज्रर्षे: पूर्ववत् । (३) सुगन्धिना - शोभनः गन्धः यस्मिन् सः इति सुगन्धि:, तेन सुगन्धिना । (अव्य. ब. व्री.) तर्तश्च भगवान्वज्रः, सुधामधुरया गिरा । चकार' देशनां' मोहध्वान्तध्वंसैकदीपिकाम् ॥२६३॥ अन्वय :- तत: च भगवान् वज्रः सुधामधुरया गिरा मोहध्वान्तध्वंसैकदीपिकां देशनां चकार । समास :- (१) सुधामधुरया सुधा इव मधुरा इति सुधामधुरा, तया सुधामधुरया । (उप.कर्म.) (२) मोहध्वान्तध्वंसैकदीपिकाम् – (A) मोह एव ध्वान्तम् इति मोहध्वान्तम् । (अव.पू.क.) (B) मोहध्वान्तस्य ध्वंसः इति मोहध्वान्तध्वंसः । (ष. त.पु.) (C) एका चासौ दीपिका च इति एकदीपिका । (वि.पू.क.) (D) मोहध्वान्तध्वंसे एकदीपिका इव इति मोहध्वान्तध्वंसैकदीपिका, तां मोहध्वान्तध्वंसैकदीपिकाम् । ( स.त.पु.) क्षीरास्त्रवलब्धिमतेः, श्रीवज्रस्वामिनंस्तयां । धर्मदेशनयाँ राजा, हृतचित्तोऽभवत्तराम् ॥२६४॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy