________________
૧૫૨
अन्वय :- विष्वग् निधूमधामसु शून्यीभूतेषु ग्रामेषु अभवत्पादसञ्चाराः
पन्थानः अपि खिलाः अभवन् । खिलाः - सञ्चारायोग्याः । “द्वे खिलाऽप्रहते समे त्रिषु"
इत्यमरः (२।१।५) समास :- (१) शून्यीभूतेषु - (A) न शून्याः इति अशून्याः ।
(नञ्.त.पु.) (B) अशून्याः शून्याः इव भूताः शून्यीभूताः तेषु
__ शून्यीभूतेषु । (गति.त.पु.) (२) निर्धूमधामसु - (A) निर्गतः धूमः येभ्यस्तानि इति
निर्धूमानि । (प्रादि.ब.वी.) (B) निर्धूमानि धामानि येषु ते इति निर्धूमधामानः,
तेषु निर्धूमधामसु । (समा.ब.वी.) (३) अभवत्पादसञ्चाराः - (A) न भवन् इति अभवन् ।
(नञ्.त.पु.) (B) पादानां सञ्चारः इति पादसञ्चारः । (ष.त.पु.) (C) अभवन् पादसञ्चारः येषु ते इति अभवत्पाद
सञ्चाराः । (समा.ब.वी.) ततश्च सकलः संघों , दुष्कालेन कर्थितः । दीनों विज्ञपयामास , सुनन्दानन्दनं मुनिम् ॥३१९॥ अन्वय :- ततः च दुष्कालेन कर्थितः दीनः सकलः संघः
सुनन्दानन्दनं मुनिं विज्ञपयामास । समास :- (१) दुष्कालेन - दुष्टः कालः इति दुष्कालः, तेन
दुष्कालेन । (प्रा.क.)