SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ (२) वज्रस्वामिमहर्षिणा (A) वज्रस्वामी - पूर्ववत् । (B) महर्षिः - पूर्ववत् । (C) वज्रस्वामी चासौ महर्षिश्च इति वज्रस्वामिमहर्षि:, तेन वज्रस्वामिमहर्षिणा। (वि. उत्त.क.) - (३) शय्यातरोत्तम: - (A) शय्यातरः - पूर्ववत् । (B) शय्यातरेषु उत्तमः इति शय्यातरोत्तमः । (स.त.पु.) विद्यापटोपविष्टस्ते, यान्तेः साद्रिसरित्पुराम् । सर्वे विलोकयामासुः, करामलकवन्महीम् ॥३३०॥ अन्वय :- विद्यापटोपविष्टाः यान्तः ते सर्वे साद्रिसरित्पुरां महीं करामलकवत् विलोकयामासुः । - समास :- (१) विद्यापटोपविष्टा: – (A) विद्यया (कृत:) पट: इति विद्यापट: । (तृ.त.पु.) (B) विद्यापटे उपविष्टाः इति विद्यापटोपविष्टाः । (स.त.पु.) (२) साद्रिसरित्पुराम् – (A) अद्रयश्च सरितश्च पुरश्च इति अद्रिसरित्पुरः । (इ.द्व.) (B) सह अद्रिसरित्पूर्भिः वर्तते या सा इति साद्रिसरित्पुरा, तां साद्रिसरित्पुराम् । ( सह. ब. व्री.) (३) करामलकवत् - (A) करे स्थितम् इति करस्थितम् । (स.त.पु.) (B) करस्थितम् आमलकम् इति करामलकम् । (म.प.लो.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy