________________
४७६
दशविधः सङ्क्लेशः यदसंवरणमसङ्गोपनं स सूचीकुशाग्रासंवरः, एषः तूपलक्षणत्वात्समस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्य इति ।....॥२०॥
सङ्क्लेशः - मनसोऽविशुद्धिः । स विषयभेदाद्दशविधः । तद्यथा - १ उपधिसङ्क्लेशः, २ वसतिसङ्क्लेशः, ३ कषायसङ्क्लेशः, ४ आहारसङ्क्लेशः, ५ मनःसङ्क्लेशः, ६ वचःसङ्क्लेशः, ७ कायसङ्क्लेशः, ८ ज्ञानसक्लेशः, ९ दर्शनसङ्क्लेशः १० चारित्रसङ्क्लेशश्च । यदवाचि पाक्षिसूत्रवृत्ती - _ 'संकिलेसं च' त्ति सङ्क्लेशोऽसमाधिः तं च दशविधं परिवजयन्नित्यादि पूर्ववत्स चायं उपधीयते उपष्टभ्यते-संयमः संयमप्रधानं शरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः सङ्क्लेश उपधिसङ्क्लेशः १ । तथोपाश्रयो वसतिस्तद्विषयः सङ्क्लेशो मनोज्ञामनोज्ञादिद्वारेणासमाधानमुपाश्रयसङ्क्लेशः २ । तथा-कषाया एव कषायैर्वा सङ्क्लेशः कषायसङ्क्लेशः ३ । तथा-भक्तपानाश्रितः सङ्क्लेशो भक्तपानसङ्क्लेशः ४ । तथा-मनसो मनसि वा सङ्क्लेशो मनःसङ्क्लेशः ५ । तथा - वाचा सङ्क्लेशो वाक्सङ्क्लेशः ६ । तथा – कायमाश्रित्य सङ्क्लेशः कायसङ्क्लेशः ७ । तथा – ज्ञानस्य सङ्क्लेशोऽविशुद्धयमानता ज्ञानसङ्क्लेशः ८ । एवं दर्शनसङ्क्लेशः ९ । चारित्रसङ्क्लेशश्चेति १० ॥२०॥'
उपहन्तीत्युपघातः । स दशविधः । तद्यथा - १ उद्गमोपघातः २ उत्पादनोपघातः, ३ एषणोपघातः, ४ परिकर्मोपघातः, ५ परिहरणोपघातः, ६ ज्ञानोपघातः, ७ दर्शनोपघातः, ८ चारित्रोपघातः, ९ अप्रीतिकोपघातः १० संरक्षणोपघातश्च । यत्प्रत्यपादि पाक्षित्रसूत्रवृत्त्योः
"उवघायं च दसविहं असंवरं तह य संकिलेसं च ।
परिवज्जन्तो गुत्तो रक्खामि महव्वए पञ्च ॥२०॥ (छाया- उपघातं च दशविधं असंवरं तथा च सङ्क्लेशं च ।
परिवर्जयन् गुप्तो रक्षामि महाव्रतानि पञ्च ॥२०॥) वृत्तिः - उपहननमुपघातस्तं च दशविधमुद्गमोपघातादिभेदाद्दशप्रकारं वजयन् तत्र यदुद्गमेनाधाकादिना षोडशविधिनोपहननं विराधनं चारित्रस्य तत्साधकभक्तादेर्वा अल्पता स उद्गमोपघातः । १ । एवमुत्पादनया धात्र्यादिदोषलक्षणया उपघातः स उत्पादनोपघातः । २ । एषणया-शङ्कितादिभेदया य उपघातः स एषणोपघातः । ३ । परिकर्म वस्त्रपात्रादेः