Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७५५
षोडश वचनविधयः
वृत्तिः - कालत्रिकं तथा वचनत्रिकं तथा लिङ्गत्रिकं परोक्षमत्र प्रथमैकवचनस्य लोपः तथा प्रत्यक्षं तथोपनयापनयचतुष्कं तथाऽध्यात्मं चैव षोडशमिति गाथावयवार्थः । तत्राकरोत्करोति करिष्यतीत्यतीतादिकालनिर्देशप्रधानं वचनजातं कालत्रिकवचनमित्यर्थः, तथा एको द्वौ बहव इत्येकत्वाद्यभिधायकः शब्दसन्दर्भो वचनत्रिकमिति, तथेयं स्त्री अयं पुरुष:: इदं कुलमिति त्रीणि लिङ्गप्रयानानि वचनानीति लिङ्गत्रिकं, तथा स इति परोक्षनिर्देश: परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, तथोपनयापनयवचनं चतुर्धा भवति, तद्यथा - उपनयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवचनं तथा अपनयापनयवचनमिति, तत्रोपनयो-गुणोक्तिः अपनयो-दोषभणनं, तत्र सुरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनं तथा सुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनं तथा कुरूपा स्त्रीयं परं सुशीलेत्यपनयोपनयवचनं कुरूपेयं कुशीला चेत्यपनयापनयवचनमिति, तथा अन्यच्चेतसि निधाय प्रतारकबुद्ध्याऽन्यबिभणिषुरपि सहसा यच्चेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनम् १४० ॥८९६॥' ।
गुरुरेतान् षोडश वचनविधीन् सम्यग्जानाति ।
पापेषु प्रवृत्तस्याऽऽत्मनः संयम-नियन्त्रणं संयमः । स सप्तदशविधः । तद्यथा - १ पृथ्वीकायसंयमः, २ अप्कायसंयमः, ३ तेजस्कायसंयमः, ४ वायुकायसंयमः, ५ वनस्पतिकायसंयमः, ६ द्वीन्द्रियसंयमः, ७ त्रीन्द्रियसंयमः, ८ चतुरिन्द्रियसंयमः, ९ पञ्चेन्द्रियसंयमः, १० अजीवसंयमः, ११ प्रेक्षासंयमः, १२ उपेक्षासंयमः, १३ प्रमार्जनासंयमः, १४ परिष्ठापनासंयमः, १५ मनःसंयमः, १६ वचनसंयमः, १७ कायसंयमश्च । उक्तञ्च दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तौ च - 'साम्प्रतं संयमव्याचिख्यासयाऽऽह -
पुढविदगअगणिमारुयवणस्सईबितिचउपणिदिअज्जीवे ।
पेहोपेहपमज्जणपरिटुवणमणोवईकाए ॥४६॥ (छाया- पृथ्व्युदकाग्निमारुतवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवेषु ।
प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनमनोवाक्कायेषु ॥४६॥) वृत्तिः - पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं ।
संघट्टणादि ण करे तिविहेणं करणजोएणं ॥१॥

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410