Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 392
________________ सप्तदशविधानि मरणानि अन्तःशल्यमरणमाह - लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुच्चरिअं । जेन कहंति गुरूणं न हु ते आराहगा हुंति ॥२१८॥ गारवपंकनिबुड्डा अइयारं जे परस्स न कर्हति । दंसणनाणचरित्ते ससल्लमरणं हवइ तेसिं ॥२१९॥ (छाया- लज्जया गौरवेण च बहुश्रुतमदेन वाऽपि दुश्चरितम् । ये न कथयन्ति गुरूणां न खलु ते आराधका भवन्ति ॥२१८॥ गौरवपङ्कनिमग्ना अतिचारं ये परस्य न कथयन्ति । दर्शनज्ञानचारित्रे सशल्यमरणं भवति तेषाम् ॥२१९॥ ७८९ वृत्ति: - तत्र लज्जया अनुचितानुष्ठानसंवरणाऽऽत्मिकया गौरवेण च सातर्द्धिरसगौरवात्मकेन, मा भून्ममालोचनार्हमाचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, बहुश्रुतमदेन वा बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्राजना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकर्म्माणो न कथयन्ति नालोचयन्ति, केषाम् ? - गुरूणाम् आलोचनार्हाणामाचार्यादीनां किं तद् ? - दुश्चरितं दुरनुष्ठितम् इति सम्बन्धः, न हु नैव ते अनन्तरमुक्तरूपा आराधयन्ति - अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह - गौरवं पङ्क इव कालुष्यहेतुतया तस्मिन् निबुड्डा - इति प्राकृतत्वान्निमग्ना इव निमग्नाः तत्क्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम्, अतिचारम् अपराधं ये परस्य आचार्यादेः न कथयन्ति, किंविषयम् ? इत्याह - दर्शनज्ञानचारित्रे दर्शनज्ञानचारित्रविषयं तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषयं समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया, सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम् अन्तःशल्यमरणं भवति, तेषां गौरवपङ्कमग्नानामिति गाथाद्वयार्थः ॥२१८॥ ॥२१९॥ अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाह एवं ससल्लमरणं मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा दीहे संसारकंतारे ॥२२०॥

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410