Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७८७
सप्तदशविधानि मरणानि (छाया- अनुसमयं निरन्तरमावीचिसञ्जितं तद् भणन्ति पञ्चविधम् ।
द्रव्ये क्षेत्रे काले भवे च भावे च संसारे ॥२१५॥) वृत्तिः - 'अणुसमयं' समयमाश्रित्य, इदं च व्यवहितसमयाश्रयणतोऽपीति मा भूभ्रान्तिरत आह - निरन्तरं, न सान्तरम्, अन्तरालासम्भवात्, किं तदेवंविधम् ? - 'अवीइ-संनियंति प्राकृतत्वादा-समन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिस्तदाऽऽवीचि, ततश्चावीचीति सञ्ज्ञा सञ्जाता अस्मिस्तारकादित्वात् 'तदस्य सञ्जातं तारकादिभ्य इतजि' (पा० ५-२-४६)त्यनेनेत्यावीचिसज्ञितम्, अथवा वीचिः-विच्छेदस्तदभावादवीचि तत्सज्ञितम्, उभयत्र प्रक्रमान्मरणं, यद्वा सञ्जितशब्दः प्रत्येकमभिसम्बध्यते, ततश्च अनुसमयसञ्जितं निरन्तरसज्ञितम् अवीचिसञ्जितमिति एकाथिकान्येतानि, तदित्यावीचिमरणं भणन्ति प्रतिपादयन्ति पञ्चविधं पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतन्त्र्यं द्योतयति, तदेवाह - 'दव्वे 'त्ति द्रव्यावीचिमरणं 'खेत्ते 'त्ति क्षेत्रावीचिमरणं 'काले 'त्ति कालावीचिमरणं 'भवे यत्ति भवावीचिमरणं च 'भावे य'त्ति भावावीचिमरणं च, संसार इत्याधारनिर्देशः, तत्रैव मरणस्य सम्भवात्, तत्र द्रव्यावीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तच्च नारकादिभेदाच्चतुर्विधम्, एवं नरकादिगतिचातुविध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्डेव, ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्दुव, 'काल'इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवादिष्वसम्भवात्, स च देवायुष्ककालादिभेदाच्चतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम्, एवं नरकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुर्धेव, तेषामेव च नारकादीनां चतुर्विधमायुःक्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावावीचिमरणमपि चतुर्धेव वाच्यमिति गाथार्थः ॥२१५॥ अधुनाऽवधिमरणमाह -
एमेव ओहिमरणं जाणि मओ ताणि चेव मरड़ पुणो। (छाया- एवमेव अवधिमरणं यानि मृतः तानि चैव मरिष्यति पुनः ।)
वृत्तिः - एवमेव यथाऽऽवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं, तथाऽवधिमरणमपीत्यर्थः । तत्स्वरूपमाह-यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो 'त्ति आर्षत्वात्तिव्यत्ययेन मरिष्यति पुनः, किमुक्तं भवति ? अवधिः-मर्यादा, ततश्च

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410