Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 396
________________ सप्तदशविधानि मरणानि (छाया - भक्तपरिज्ञा इङ्गिनी पादपोपगमं च त्रीणि मरणानि । जघन्यमध्यमज्येष्ठानि धृतिसंहननाभ्यां तु विशिष्टानि ॥ २२५ ॥ ) वृत्तिः - भक्तं - भोजनं तस्य परिज्ञा - ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्तपूर्वमेतद्धेतुकं चावद्यमिति परिज्ञानं, प्रत्याख्यानपरिज्ञया च 'सव्वं च असणपाणं चउव्विहं जा य बाहिरा उवही । अब्भितरं च उवहिं जावज्जीवं च वोसिरे ॥ १ ॥ ' (छाया - सर्वं चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चोपधिं यावज्जीवं च व्युत्सृजति ॥ ) ७९३ इत्यागमवचनाच्चतुर्विधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्ग्यते-प्रतिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामितीङ्गिनी, पादैःअधःप्रसप्पिमूलात्मकैः पिबति पादपो-वृक्षः, उपशब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगमं, किमुक्तं भवति ? - यथैव पादपः क्वचित् कथञ्चिन्निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृत्'णिच्चल णिप्पडिकम्मो णिक्खिवए जं जहिं जहा अंगं । एयं पादोवगमं णीहारिं वा अणीहारिं ॥ १ ॥ पातोवगमं भणियं सम विसमो पायवोव्व जह पडितो । णवरं परप्पतोगा कंपेज्ज जहा फलतरूव्व ॥२॥ (छाया - निश्चलो निष्प्रतिकर्मा निक्षिपति यद्यत्र यथाऽङ्गम् । एतत्पादपोपगमनं निर्हारं वाऽनिर्हारम् ॥१॥ पादपोपगमनं भणितं समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात् कम्पेत यथा फलतरुवत् ॥२॥) चः समुच्चये, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि, अत एवाह - त्रीणि मरणानि, एतत्स्वरूपं च यथेदं विधेयं यच्चात्र परिकर्म्म अपरिकर्म्म च इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति नियुक्तिकृता नोक्तम् । द्वारनिर्देशाच्चावश्यं किञ्चिद्वाच्यमितिमत्त्वेदमाह - 'कण्णस' त्ति सूत्रत्वात् कनिष्ठं- लघु जघन्यमितियावत्,

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410