Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७९५
सप्तदशविधानि मरणानि (छाया- सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः ।
सर्वेऽपि देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥१॥) अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, तत्र प्राक् पादपोपगमनादेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत्, उक्तं हि -
'पढमंमि य संघयणे वटुंते सेलकुड्डसामाणे।
तेसिपि य वोच्छेओ चोहसपुव्वीण वोच्छेए ॥१॥' (छाया- प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने ।
तेषामपि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥१॥) कथं चान्यथैवंविधविशिष्टधृतिसंहननाभावे -
'पुव्वभवियवेरेणं देवो साहरड़ कोऽवि पायाले ।
मा सो चरिमसरीरो न वेयणं किंपि पावेज्जा ॥१॥' (छाया- पूर्वभविकवरेण देवः संहरति कोऽपि पाताले ।
मा स चरमशरीरो न वेदनां कामपि प्राप्नुयात् ॥१॥) तथा- 'देवो नेहेण नयइ देवारण्णं व इंदभवणं वा ।
जहियं इट्ठा कंता सव्वसुहा हुंति सुहभावा ॥२॥ उप्पण्णे उवसग्गे दिव्वे माणुस्सए तिरिक्खे य । सव्वे पराजिणित्ता पाओवगया परिहरंति ॥३॥ पुव्वावरउत्तरेहिं दाहिणवाएहिं आवडतेहिं ।
जह नवि कंपइ मेरू तह झाणातो नवि चलंति ॥४॥' (छाया- देवः स्नेहेन नयति. देवारण्यं वेन्द्रभवनं वा ।
यत्रेष्टाः कान्ताः सर्वसुखा भवन्ति शुभभावाः ॥२॥ उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकान् तैस्चांश्च । सर्वान् पराजित्य पादपोपगताः परिहरन्ति ॥३॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410