Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 397
________________ ७९४ सप्तदशविधानि मरणानि मध्यम-लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमुत्कृष्टमित्यर्थः, एषां द्वन्द्वः तत एतानि, धृतिः-संयम प्रति चित्तस्वास्थ्यं संहननं-शरीरसामर्थ्यहेतुः वज्रऋषभनाराचादि ताभ्यां, प्राकृतत्वाच्चैकवचननिर्देशः, समाहाराश्रयणाद्वा, तुशब्दात्सपरिकापरिकर्मतादिभिश्च विशेषैर्विशिष्टानि-विशेषवन्ति, इदमुक्तं भवति-यद्यपि त्रितयमप्येतत् 'धीरेणऽवि मरियव्वं कापुरिसेणवि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरत्तणे मरिउं ॥१॥ संसाररंगमज्ञ धीबलसंनद्धबद्धकच्छातो । हंतूण मोहमल्लं हरामि आराहणपडागं ॥२॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छ्यपत्थं उवेमि अब्भुज्जयं मरणं ॥३॥' (छाया- धीरेणापि मर्तव्यं कापुरुषेणाप्यवश्यं मर्तव्यम् । तस्मादवश्यंमरणे वरमेव धीरत्वेन मर्तुम् ॥१॥ संसाररङ्गमध्ये धृतिबलसन्नद्धबद्धकक्षाकः । हत्वा मोहमल्लं हराम्याराधनापताकाम् ॥२॥ यथा पश्चिमे काले पश्चिमतीर्थकरदेशितमुदारम् । पश्चान्निश्चयपथ्यमुपैमि अभ्युद्यतं मरणम् ॥३॥) इति शुभाशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्यापि समानं, तथा चोक्तम् - 'एयं पच्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणितो व देवो हवेज्ज अहवाऽवि सिज्झिज्जा ॥१॥' (छाया- एतत्प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेदथवाऽपि सिध्येत् ॥४॥ तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उच्यते, तथाहि - भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति, यत उक्तम् - 'सव्वावि य अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥'

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410