Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७९२
सप्तदशविधानि मरणानि ___ वृत्तिः - गृध्राः प्रतीतास्ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्वादात्मनः तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृधादिभक्षणं, तत् किमुच्यत इत्याह - 'गिद्धपिट्ठ'त्ति गृधैः स्पृष्टं-स्पर्शनं यस्मिस्तद्गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यस्मिंस्तद्गृध्रपृष्ठम्, स ह्यलक्तकपूणिकापुटप्रदानेनाप्यात्मानं गृध्रादिभिः पृष्ठादौ भक्षयतीति, पश्चान्निर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्वन्धनादि 'वेहास'न्ति प्राकृतत्वाद्यलोपे वैहायसम्, उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह - एवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायसिकेऽन्तर्भाव:, सत्यमेतत्, केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः । ननु -
'भावियजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो ।
अत्ताणंमि परंमि य तो वज्जे पीडमुभएवि ॥१॥' (छाया- भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः ।
आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥१॥) इत्यागमः, एते चानन्तरोक्ते मरणे आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय
'चत्तारि विचित्ताई विगईणिज्जूहियाई' (छाया- चत्वारि विचित्राणि निर्मूढविकृतीनि ।) इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्याशङ्क्याह - एते अनन्तरोक्ते द्वे अपि गृध्रपृष्ठवैहायसाख्ये मरणे कारणजाते कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत् अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन च सम्प्रदायानुसारितां दर्शयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥२२४॥ साम्प्रतमन्त्यमरणत्रयमाह -
भत्तपरिण्णा इंगिणी पाओवगमं च तिण्णि मरणाई। कन्नसमज्झिमजेट्ठा धिइसंघयणेण उ विसिट्ठा ॥२२५॥

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410