Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 389
________________ ७८६ सप्तदशविधानि मरणानि छउमत्थमरण केवलि वेहाणस गिद्धपिट्टमरणं च । मरणं भत्तपरिण्णा इंगिणी पाओवगमणं च ॥२१३॥ (छाया- आवीचि अवधि अत्यन्तं वलन्मरणं वशार्त्तमरणं च । अन्तःशल्यं तद्भवं बालं तथा पण्डितं मिश्रम् ॥२१२॥ छद्मस्थमरणं केवलि वैहायसं गृध्रपृष्ठमरणं च । मरणं भक्तपरिज्ञा इङ्गिनी पादपोपगमनं च ॥२१३॥) वृत्तिः - इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिमरणम् २ 'अन्तिय'त्ति आर्षत्वादत्यन्तमरणं ३ 'वलायमरणं'ति तत एव वलन्मरणं ४ वशार्त्तमरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा पण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ 'वेहाणसं'ति तत एव वैहायसमरणं १३ गृध्रपृष्ठमरणं १४ 'मरणं भत्तपरिणत्ति भक्तपरिज्ञामरणम् १५ इङ्गिनीमरणं १६ पादपोपगमनमरणं १७ चेति गाथाद्वयार्थः ॥२१२-२१३।। सम्प्रत्यतिबहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायग) निगमनमाह - सत्तरस विहाणाई मरणे गुरुणो भणंति गुणकलिआ । तेसिं नामविभत्ति वुच्छामि अहाणुपुव्वीए ॥२१४॥ (छाया- सप्तदश विधानानि मरणे गुरवो भणन्ति गुणकलिताः । तेषां नामविभक्ति वक्ष्ये अथानुपूर्व्या ॥२१४॥) वृत्तिः - सप्तदश-सप्तदशसङ्ख्यानि विधीयन्ते-विशेषाभिव्यक्तये क्रियन्त इति विधानानि - भेदाः मरणे मरणविषयाणि गुरवः पूज्यास्तीर्थकृद्गणभृदादयो भणन्ति प्रतिपादयन्ति, गुणैः-सम्यग्दर्शनज्ञानादिभिः कलिता युक्ता गुणकलिताः, न तु वयमेव इत्यकूतं, वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह - तेषां मरणानां नाम्नाम्-अभिधानानामनन्तरमुपदर्शितानां विभक्तिः-अर्थतो विभागो नामविभक्तिस्तां वक्ष्ये अभिधास्ये, अथेत्यनन्तरमेव आनुपूर्व्या-क्रमेणेति गाथार्थः ॥२१४॥ यथाप्रतिज्ञातमाह - अणुसमयनिरंतरमवीइसन्नियं तं भणंति पंचविहं । दव्वे खित्ते काले भवे य भावे य संसारे ॥२१५॥

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410