Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७८८
सप्तदशविधानि मरणानि यानि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयम् । पश्चार्द्धनाऽऽत्यन्तिकमरणमाह -
एमेव आइयंतियमरणं नवि मड् ताइ पुणो ॥२१६॥ (छाया- एवमेव आत्यन्तिकमरणं नापि म्रियते तानि पुनः ॥२१६॥)
वृत्तिः - एवमेव अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम्-'णवि मरड ताइ पुणो 'त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि द्रव्यादीनि पुनर्मियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाविंशतिभेदानीति गाथार्थः ॥२१॥ साम्प्रतं वलन्मरणमाह -
संजमजोगविसन्ना मरंति जे तं वलायमरणं तु ।
इंदियविसयवसगया मरंति जे तं वसट्टं तु ॥२१७॥ (छाया- संयमयोगविषण्णा म्रियन्ते ये तत् वलन्मरणं तु ।
___ इन्द्रियविषयवशगता म्रियन्ते ये तत् वशार्तं तु ॥२१७।।) वृत्तिः - संयमयोगाः-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां-संयमान्निवर्तमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नव्रतपरिणतीनां वतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चार्द्धन वशा-माह-इन्द्रियाणांचक्षुरादीनां विषयाः-मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तद्वशार्त्तमरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥२१७॥

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410