SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ७५५ षोडश वचनविधयः वृत्तिः - कालत्रिकं तथा वचनत्रिकं तथा लिङ्गत्रिकं परोक्षमत्र प्रथमैकवचनस्य लोपः तथा प्रत्यक्षं तथोपनयापनयचतुष्कं तथाऽध्यात्मं चैव षोडशमिति गाथावयवार्थः । तत्राकरोत्करोति करिष्यतीत्यतीतादिकालनिर्देशप्रधानं वचनजातं कालत्रिकवचनमित्यर्थः, तथा एको द्वौ बहव इत्येकत्वाद्यभिधायकः शब्दसन्दर्भो वचनत्रिकमिति, तथेयं स्त्री अयं पुरुष:: इदं कुलमिति त्रीणि लिङ्गप्रयानानि वचनानीति लिङ्गत्रिकं, तथा स इति परोक्षनिर्देश: परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, तथोपनयापनयवचनं चतुर्धा भवति, तद्यथा - उपनयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवचनं तथा अपनयापनयवचनमिति, तत्रोपनयो-गुणोक्तिः अपनयो-दोषभणनं, तत्र सुरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनं तथा सुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनं तथा कुरूपा स्त्रीयं परं सुशीलेत्यपनयोपनयवचनं कुरूपेयं कुशीला चेत्यपनयापनयवचनमिति, तथा अन्यच्चेतसि निधाय प्रतारकबुद्ध्याऽन्यबिभणिषुरपि सहसा यच्चेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनम् १४० ॥८९६॥' । गुरुरेतान् षोडश वचनविधीन् सम्यग्जानाति । पापेषु प्रवृत्तस्याऽऽत्मनः संयम-नियन्त्रणं संयमः । स सप्तदशविधः । तद्यथा - १ पृथ्वीकायसंयमः, २ अप्कायसंयमः, ३ तेजस्कायसंयमः, ४ वायुकायसंयमः, ५ वनस्पतिकायसंयमः, ६ द्वीन्द्रियसंयमः, ७ त्रीन्द्रियसंयमः, ८ चतुरिन्द्रियसंयमः, ९ पञ्चेन्द्रियसंयमः, १० अजीवसंयमः, ११ प्रेक्षासंयमः, १२ उपेक्षासंयमः, १३ प्रमार्जनासंयमः, १४ परिष्ठापनासंयमः, १५ मनःसंयमः, १६ वचनसंयमः, १७ कायसंयमश्च । उक्तञ्च दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तौ च - 'साम्प्रतं संयमव्याचिख्यासयाऽऽह - पुढविदगअगणिमारुयवणस्सईबितिचउपणिदिअज्जीवे । पेहोपेहपमज्जणपरिटुवणमणोवईकाए ॥४६॥ (छाया- पृथ्व्युदकाग्निमारुतवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवेषु । प्रेक्षोपेक्षाप्रमार्जनापरिष्ठापनमनोवाक्कायेषु ॥४६॥) वृत्तिः - पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं । संघट्टणादि ण करे तिविहेणं करणजोएणं ॥१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy