________________
त्रयोविंशतितमी षट्विशिका अथ त्रयोविंशतितमी षट्विशिकामाह - मूलम् - उस्सग्गदोसगुणवी-सवज्जओ सत्तरभेयमरणविहिं ।
भवियजणे पयडतो, छत्तीसगुणो गुरू जयउ ॥२४॥ छाया - उत्सर्गदोषैकोनविंशति-वर्जकः सप्तदशभेदमरणविधिं ।
भव्यजने प्रकटयन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२४॥ प्रेमीया वृत्तिः - उत्सर्गदोषैकोनविंशतिवर्जकः - एकोनविंशतिं कायोत्सर्गदोषान् वर्जयन्, तथा सप्तदशभेदमरणविधि - सप्तदशविधान्मरणविभागान्, भव्यजने - मुक्तिगमनयोग्यनृसमुदाये, प्रकटयन् - प्रादुष्कुर्वन् व्याख्यानयन्नित्यर्थः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समुदायार्थः ।
अवयवार्थस्त्वयम् - उत्सर्गः-त्यागः, प्रक्रमात् कायोत्सर्गः-प्राग्निरूपितशब्दार्थः, तस्य दोषा अविधय इति उत्सर्गदोषाः । ते एकोनविंशतिसङ्ख्याः । तद्यथा - १ घोटकदोषः, २ लतादोषः, ३ स्तम्भादिदोषः, ४ मालदोषः, ५ उद्धिदोषः, ६ शबरीदोषः, ७ निगडदोषः, ८ खलीनदोषः, ९ वधूदोषः, १० लम्बोत्तरदोषः, ११ स्तनदोषः, १२ संयतीदोषः, १३ अङ्गुलिभ्रूदोषः, १४ वायसदोषः, १५ कपित्थदोषः, १६ शिरःकम्पदोषः, १७ मूकदोषः, १८ वारुणीदोषः, १९ प्रेक्षादोषश्च । उक्तञ्च श्रीचैत्यवन्दनभाष्ये तद्वत्तौ च -
'साम्प्रतं 'गुणवीसदोस'त्ति विंशतितमं द्वारं प्रादुष्कुर्वन्नाह - घोडग १ लया य २ खंभे कुड्डे ३ माले य ४ सबरि ५ वहु ६ नियले ७ । लंबुत्तर ८ थण ९ उद्धी १० संजइ ११ खलिणे य १२ वायस १३ कविढे १४ ॥४५॥