Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 383
________________ ७८० अष्टादश शीलाङ्गसहस्राणि अष्टादशविधञ्च ब्रह्मचर्यम् तस्याङ्गानि-भेदाः कारणानि वा शीलाङ्गानि तेषां, जिनैः प्राग्निरूपितशब्दाथैः, प्रज्ञप्तानि - प्ररूपितानि, तेषां - शीलाङ्गानां, परिरक्षणार्थ - परिरक्षणनिमित्तम्, अपराधपदानि - प्राग्निरूपितस्वरूपाणि, वर्जयेत् - जह्यादिति गाथार्थः ॥१७६॥ साम्प्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह जोए करणे सन्ना, इंदिय भोमाइ समणधम्मे य। सीलंगसहस्साणं, अट्ठारसगस्स निष्फत्ती ॥१७७॥' (छाया- योगाः करणानि सञ्ज्ञाः, इन्द्रियाणि भूम्यादयः श्रमणधर्मश्च । शीलाङ्गसहस्राणां, अष्टादशकस्य निष्पत्तिः ॥१७७॥) अष्टादशानां शीलाङ्गसहस्राणां स्वरूपं पूर्व प्रथमषबिशिकावृत्तौ प्रतिपादितमिति तत् ततो ज्ञेयम्, नाऽत्र तदर्थमधिकं प्रयत्यते, स्थानाऽशून्यार्थं किञ्चिन्मानं तूक्तम् । गुरुरेतानि अष्टादश शीलाङ्गसहस्राणि धारयति ।। ब्रह्मचर्यं - मैथुनविरतिरूपम् । तत्प्रतिपक्षभूतस्याब्रह्मचर्यस्याष्टादशविधत्वात् तदप्यष्टादशविधम् । तद्यथा - दिव्यकामानौदारिककामांश्च मनसा वचसा कायेन च न करोति न कारयति कुर्वन्तञ्चान्यं नानुमन्यते । अष्टादशविधस्याऽब्रह्मचर्यस्य स्वरूपमेवं प्रतिपादितमावश्यकसूत्रवृत्तौ - 'तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः - ओरालियं च दिव्वं मणवइकाएणं । अणुमोयणकारवणे करणेणऽट्ठारसाबंभं ॥ वृत्तिः- इह मूलतो द्विधाऽब्रह्म भवति - औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यवहितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्योपन्यासः, अब्रह्माष्टादशविधं भवति ।' अष्टादशविधस्य ब्रह्मचर्यस्य स्वरूपं पूर्वं प्रथमषट्त्रिशिकावृत्तौ प्रतिपादितम् । गुरुरेतदष्टादशविधं सुविशुद्धं ब्रह्मचर्यं पालयति । एवं षट्त्रिंशद्गुणान्वितो गुरुरन्तरङ्गयुद्धे विजयं प्राप्नोतु ॥२३॥ इति द्वाविंशतितमी षट्रिशिका समाप्ता ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410