Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७७२
अष्टादश पापस्थानानि
अलिकप्रजल्पनसम्प्राप्त - पापप्राग्भारभृताः सन्तः । जीवाः पतन्ति नरके, जले यथा लोहमयपिण्डः ||५७०३ ||
अदत्तग्रहणसञ्जात-पापप्राग्भारभृताः सन्तः । नरके पतन्ति जीवा, जले यथा लोहमयपिण्डः ॥५७६९॥
मैथुनसङ्गसञ्जात-पापप्राग्भारभृताः सन्तः । निपतन्ति नराः नरके, जले यथा लोहमयपिण्डः ॥५८३४॥
अत्यन्तमविश्वासस्य, भाजनं मन्दिरं कषायाणाम् । दुर्निग्रहो ग्रह इव, परिग्रहः कं न विनाटयति ॥५८७०॥ क्रोधात् महाऽऽरम्भः, परिग्रहोऽपि खलु प्रवर्त्तते क्रोधात् । किं बहुना सर्वाणि अपि, पापस्थानानि क्रोधात् ॥५९२०॥ यथा यथा करोति मानं, पुरुषः तथा तथा गुणाः परिगलन्ति । गुणपरिगलनेन पुनः क्रमेण गुणविरहितत्वं तस्य ॥५९६६॥ यथा यथा करोति मायां, तथा तथा अप्रत्ययं जने जनयति । अप्रत्ययात् पुरुषः, अर्ककतूलात् लघु भवति ॥ ६०००॥
लोभे च प्रसरति, कार्याकार्यमचिन्तयंश्च । मरणमपि खलु अगणयन्, करोति महासाहसं पुरुषः ||६०६४||
अत्यन्तलोभमाया-रूपमभिष्वङ्गमात्रमिह प्रेम । आत्मपरिणाम एव, त्रिलोकपूज्याः प्ररूपयन्ति ॥ ६०६६॥
अत्यन्तक्रोधमानो-द्भव इह अशुभात्मपरिणामः । द्वेषो भण्यते यस्मात्, दूष्यते तेन स्वपरजनः ॥ ६१११॥ क्रोधाधिष्ठितजनवचन- युद्धस्वरूपो भण्यते कलहः । स च तनुमानसोद्भवा-सङ्ख्यसौख्यानां प्रतिपक्षः ||६१५५॥
प्रायः प्रत्यक्ष- - मुद्दिश्य परमसद्दोषाणाम् । आरोपणं यदत्र, अभ्याख्यानं तकत् ब्रुवन्ति ॥ ६२४३॥

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410