SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ७७२ अष्टादश पापस्थानानि अलिकप्रजल्पनसम्प्राप्त - पापप्राग्भारभृताः सन्तः । जीवाः पतन्ति नरके, जले यथा लोहमयपिण्डः ||५७०३ || अदत्तग्रहणसञ्जात-पापप्राग्भारभृताः सन्तः । नरके पतन्ति जीवा, जले यथा लोहमयपिण्डः ॥५७६९॥ मैथुनसङ्गसञ्जात-पापप्राग्भारभृताः सन्तः । निपतन्ति नराः नरके, जले यथा लोहमयपिण्डः ॥५८३४॥ अत्यन्तमविश्वासस्य, भाजनं मन्दिरं कषायाणाम् । दुर्निग्रहो ग्रह इव, परिग्रहः कं न विनाटयति ॥५८७०॥ क्रोधात् महाऽऽरम्भः, परिग्रहोऽपि खलु प्रवर्त्तते क्रोधात् । किं बहुना सर्वाणि अपि, पापस्थानानि क्रोधात् ॥५९२०॥ यथा यथा करोति मानं, पुरुषः तथा तथा गुणाः परिगलन्ति । गुणपरिगलनेन पुनः क्रमेण गुणविरहितत्वं तस्य ॥५९६६॥ यथा यथा करोति मायां, तथा तथा अप्रत्ययं जने जनयति । अप्रत्ययात् पुरुषः, अर्ककतूलात् लघु भवति ॥ ६०००॥ लोभे च प्रसरति, कार्याकार्यमचिन्तयंश्च । मरणमपि खलु अगणयन्, करोति महासाहसं पुरुषः ||६०६४|| अत्यन्तलोभमाया-रूपमभिष्वङ्गमात्रमिह प्रेम । आत्मपरिणाम एव, त्रिलोकपूज्याः प्ररूपयन्ति ॥ ६०६६॥ अत्यन्तक्रोधमानो-द्भव इह अशुभात्मपरिणामः । द्वेषो भण्यते यस्मात्, दूष्यते तेन स्वपरजनः ॥ ६१११॥ क्रोधाधिष्ठितजनवचन- युद्धस्वरूपो भण्यते कलहः । स च तनुमानसोद्भवा-सङ्ख्यसौख्यानां प्रतिपक्षः ||६१५५॥ प्रायः प्रत्यक्ष- - मुद्दिश्य परमसद्दोषाणाम् । आरोपणं यदत्र, अभ्याख्यानं तकत् ब्रुवन्ति ॥ ६२४३॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy