Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ ७२६ पञ्चदशविधाः सञ्जाः वृत्तिः - सञ्ज्ञानं सञ्जा-आभोगः, स द्विधा-क्षायोपशमिकी औदयिकी च, तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता, द्वितीया पुनः सामान्येन चतुर्विधाऽऽहारसज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद् या कवलाद्याहाराद्यर्थं तथाविधपुद्गलोपादानक्रिया सा आहारसञ्ज्ञा, तस्या आभोगात्मिकत्वात्, सा पुनश्चतुर्भिः कारणैः समुत्पद्यते, यदुक्तं स्थानाङ्गे - ____ 'चउहिं ठाणेहिं आहारसन्ना समुप्पज्जइ, तंजहा-ओमकुट्टयाए छुहावेयणिज्जस्स कम्मस्सुदएणं मईए तट्ठोवओगेणं ।' ति । __(छाया- चतुर्भिः स्थानैः आहारसञ्ज्ञा समुत्पद्यते, तद्यथा अवमकोष्ठतया क्षुद्वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।) ___ तत्र अवमकोष्ठतया-रिक्तोदरतया क्षुद्वेदनीयस्य कर्मण उदयेन मत्या-आहारकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन-सततमाहारचिन्तयेति १ । तथा भयमोहनीयोदयाद्भयोद्भ्रान्तस्य दृष्टिवदनविकाररोमाञ्चोद्भेदादिक्रिया भयसञ्ज्ञा, इयमपि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तं - 'हीणसत्तयाए भयवेयणिज्जस्स कम्मस्स उदएणं मईए तदवोवओगेणं ।' ति । (छाया- हीनसत्त्वतया भयवेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।) तत्र हीनसत्त्वतया-सत्त्वाभावेन भयवेदनीयस्य कर्मण उदयेन मत्या-भयवार्ताश्रवणभीषणदर्शनादिजनितया बुद्ध्या तदर्थोपयोगेन-इहलोकादिसप्तभयलक्षणार्थपर्यालोचनेनेति २ । तथा लोभोदयात्प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसञ्जा, एषापि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तम् - 'अविमुत्तयाए लोभवेयणिज्जस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं ।' ति । (छाया- अविमुक्ततया लोभवेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।) तत्र अविमुक्ततया-सपरिग्रहतया लोभवेदनीयकर्मण उदयेन मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ३ । तथा पुंवेदोदयान्मैथुनाय स्त्र्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसञ्ज्ञा, असावपि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तम् - 'चियमंससोणियाए मोहणिज्जस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं ।' ति । (छाया- चितमांसशोणिततया मोहनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।)

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410