________________
७२६
पञ्चदशविधाः सञ्जाः वृत्तिः - सञ्ज्ञानं सञ्जा-आभोगः, स द्विधा-क्षायोपशमिकी औदयिकी च, तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता, द्वितीया पुनः सामान्येन चतुर्विधाऽऽहारसज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद् या कवलाद्याहाराद्यर्थं तथाविधपुद्गलोपादानक्रिया सा आहारसञ्ज्ञा, तस्या आभोगात्मिकत्वात्, सा पुनश्चतुर्भिः कारणैः समुत्पद्यते, यदुक्तं स्थानाङ्गे - ____ 'चउहिं ठाणेहिं आहारसन्ना समुप्पज्जइ, तंजहा-ओमकुट्टयाए छुहावेयणिज्जस्स कम्मस्सुदएणं मईए तट्ठोवओगेणं ।' ति । __(छाया- चतुर्भिः स्थानैः आहारसञ्ज्ञा समुत्पद्यते, तद्यथा अवमकोष्ठतया क्षुद्वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।) ___ तत्र अवमकोष्ठतया-रिक्तोदरतया क्षुद्वेदनीयस्य कर्मण उदयेन मत्या-आहारकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन-सततमाहारचिन्तयेति १ । तथा भयमोहनीयोदयाद्भयोद्भ्रान्तस्य दृष्टिवदनविकाररोमाञ्चोद्भेदादिक्रिया भयसञ्ज्ञा, इयमपि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तं -
'हीणसत्तयाए भयवेयणिज्जस्स कम्मस्स उदएणं मईए तदवोवओगेणं ।' ति । (छाया- हीनसत्त्वतया भयवेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।)
तत्र हीनसत्त्वतया-सत्त्वाभावेन भयवेदनीयस्य कर्मण उदयेन मत्या-भयवार्ताश्रवणभीषणदर्शनादिजनितया बुद्ध्या तदर्थोपयोगेन-इहलोकादिसप्तभयलक्षणार्थपर्यालोचनेनेति २ । तथा लोभोदयात्प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसञ्जा, एषापि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तम् -
'अविमुत्तयाए लोभवेयणिज्जस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं ।' ति । (छाया- अविमुक्ततया लोभवेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।)
तत्र अविमुक्ततया-सपरिग्रहतया लोभवेदनीयकर्मण उदयेन मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ३ । तथा पुंवेदोदयान्मैथुनाय स्त्र्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसञ्ज्ञा, असावपि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तम् -
'चियमंससोणियाए मोहणिज्जस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं ।' ति । (छाया- चितमांसशोणिततया मोहनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन ।)