________________
पञ्चदशविधाः सज्ञाः
७२५ 'जोएण कम्मएणं, आहारेई अणंतरं जीवो ।
तेण परं मीसेणं, जाव सरीरस्स निष्फत्ती ॥१॥' (छाया- योगेण कार्मणेन, आहारयति अनन्तरं जीवः ।
तेन परं मिश्रेण, यावत् शरीरस्य निष्पत्तिः ॥१॥) औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः ४। तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यते स वैक्रियमिश्रः । अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः । शेषस्तु वाय्वादीनामौदारिक(वैक्रिय)मिश्रो न ग्राह्योऽप्रधानत्वादिति ५। तथाऽऽहारकं मित्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रः, स एव कायस्तेन योग आहारकमिश्रकाययोगः । यदा सिद्धप्रयोजनश्चतुर्दशपूर्वविदाऽऽहारकं परित्यज्यौदारिकोपादानाय प्रवर्तते तदौदारिकेण मिश्रमाहारकं प्राप्यते । बहुव्यापारत्वेन प्रधानत्वादाहारकेण व्यपदेश इति भावः । अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रं प्रतिपद्यन्ते, प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् ६। तथा कर्मव कार्मणः, अथ कर्मणो विकारः कार्मणः, उक्तं च -
'कम्मविवागो कम्मणमट्टविहविचित्तकम्मनिप्फन्नं ।
सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥' (छाया- कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् ।
सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥१॥) कार्मणश्चासौ कायश्च तेन योगः कार्मणकाययोगः ७। 'इय जोगा' इति अमुना प्रकारेण योगाः पञ्चदशापि प्ररूपिता इति शेषः । इति गाथार्थः ॥३४॥'
गुरुः पञ्चदशानां योगानां स्वरूपं परेभ्यः सम्यग्कथयति ।
सञ्ज्ञा - विज्ञानम् । सा पञ्चदशविधा । तद्यथा - १ आहारसज्ञा, २ भयसझा, ३ परिग्रहसञ्ज्ञा, ४ मैथुनसञ्ज्ञा, ५ क्रोधसञ्ज्ञा, ६ मानसञ्जा, ७ मायासज्ञा, ८ लोभसञ्जा, ९ ओघसञ्ज्ञा, १० लोकसञ्ज्ञा, ११ सुखसञ्ज्ञा, १२ दुःखसञ्ज्ञा, १३ मोहसञ्ज्ञा, १४ विचिकित्सासझा, १५ धर्मसञ्ज्ञा च । यदाह प्रवचनसारोद्धारे तद्वृत्तौ च -
'आहार १ भय २ परिग्गह ३ मेहुण ४ रूवाओ हुंति चत्तारि ।
सत्ताणं सन्नाओ आसंसारं समग्गाणं ॥९२३॥ (छाया- आहार १ भय २ परिग्रह ३ मैथुन ४ रूपा भवन्ति चतस्रः ।
सत्त्वानां सञ्ज्ञाः आसंसारं समग्राणाम् ॥९२३॥)