SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ७२४ सच्चं मोसं मीसं असच्चमोसं मणं तह वई य । उरलविउव्वाहारा मीसा कम्मइगमिय जोगा ॥३४॥ पञ्चदशविधा योगाः (छाया - सत्यं मृषा मिश्रं असत्यमृषं मनस्तथा वाक्च । औदारिकवैक्रियाहारका मिश्राः कार्मणमिति योगाः ||३४|| ) वृत्तिः - सन्तो मुनयः पदार्था वा, तेषु यथासङ्ख्येन मुक्तिप्रापकत्वेन यथावस्थितस्वरूपचिन्तनेन वा हितं सत्यम् । अस्ति जीवः सदसद्रूपो वा देहमात्रव्यापकः, इत्यादि यथावस्थितवस्तुविकल्पनपरम् । तथा तद्विपरीतं मृषा । नास्ति जीव एकान्तसद्रूपो वेत्यादि । यथावस्थिताऽयथावस्थितवस्तुचिन्तनपरं मिश्रम् । इह धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमिदमिति यदा विकल्पयति तदा प्रस्तुतमिश्रविषयता । इदं हि विकल्पनमत्राशोकवृक्षाणां सद्भावात्सत्यम्, अन्येषामपि धवादीनां तत्र सद्भावादसत्यमिति मिश्रम् । न विद्यते मृषा यत्र तद्भवत्यमृषम्, असत्यं च तदमृषं चेति कृताकृतादिवत्कर्मधारयः, आमन्त्रणप्रज्ञापनादिरूपम्, यथा हे देवदत्त ! घटमानय, धर्मं कुरु, भिक्षां देहि इत्यादि । एवंविधं किम् ? इत्याह 'मणं' इति मनश्चित्तं तथाशब्दो वाक्योपक्षेपार्थः । लिङ्गव्यत्ययेन वाक्चैवंविधैव चतुर्भेदेत्यर्थः । तथा 'उरलविउव्वाहारा' इति सूचकत्वात्सूत्रस्यौदारिकवैक्रियाहारककाययोगाः । तथा 'मीसा' इति एत एवौदारिकादयो मिश्रास्त्रयः । 'कम्मइग' इति प्राकृतत्वात्कार्मणकाययोग इति सप्तविधकाययोगः । तत्रोदारं प्रधानं, उदारमेवौदारिकम् । प्राधान्यं चेह तीर्थकरगणधरशरीरापेक्षया वेदितव्यम् । ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् । अथवा उदारं = सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणम्, उदारमेवौदारिकम् । बृहत्त्वं चास्य भवधारणीयसहजशरीरापेक्षया मन्तव्यम् । अन्यथा हि उत्तरवैक्रियं लक्षयोजनमानमपि लभ्यत इति । औदारिकमेव चीयमानत्वात्कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः १। तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, विशिष्टं कुर्वन्ति तदिति च निपातनाद्वैक्रियम्, तदेव कायस्तेन योगो वैक्रियकाययोगः २। तथा चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाह्रियते = निर्वर्त्यत इत्याहारकम्, अथवा आह्रियन्ते= गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम्, तदेव काय:, तेन योग आहारककाययोगः ३। तथा औदारिकं मिश्रं यत्र, कार्मणेनेति गम्यते, स भवत्यौदारिकमिश्रः । उत्पत्तिदेशे हि अनन्तरागतो जीवः प्रथमसमये कार्मणेनैवाहारयति ततः परमौदारिकस्यारब्धत्वादौदारिकेण कार्मणमिश्रेणाहारयति, उक्तं च निर्युक्तिकृता 1
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy