________________
अष्टादशी षट्विशिका अधुनाऽष्टादशी षट्त्रिंशिकामाह - मूलम् - पंचदसजोगसन्ना-कहणेण तिगारवाण चाएण ।
सल्लतिगवज्जणेणं, छत्तीसगुणो गुरू जयउ ॥१९॥ छाया - पञ्चदशयोगसञ्जा-कथनेन त्रिगौरवाणां त्यागेन ।
शल्यत्रिकवर्जनेन, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१९॥ प्रेमीया वृत्तिः - पञ्चदशयोगसञ्ज्ञाकथनेन - पञ्चदशानां योगानां पञ्चदशानाञ्च सञ्ज्ञानां कथनेन, तथा त्रिगौरवाणां - त्रयाणां गौरवाणां, त्यागेन - परिहारेण, तथा शल्यत्रिकवर्जनेन - त्रयाणां शल्यानां वर्जनेन, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - योगः - मनोवाक्कायावष्टम्भसमुत्थो जीवस्य परिस्पन्दः, कारणे कार्यस्योपचारं कृत्वा योगसहकारिभूता मनोवाक्काया अपि योगा इत्युच्यन्ते । ते पञ्चदशविधाः । तद्यथा - १ सत्यमनोयोगः, २ असत्यमनोयोगः, ३ सत्यासत्यमनोयोगः, ४ असत्यामृषामनोयोगः, ५ सत्यवाग्योगः, ६ असत्यवाग्योगः, ७ सत्यासत्यवाग्योगः, ८ असत्यामृषावाग्योगः, ९ औदारिककाययोगः, १० वैक्रियकाययोगः, ११ आहारककाययोगः, १२ औदारिकमिश्रकाययोगः, १३ वैक्रियमिश्रकाययोगः, १४ आहारकमिश्रकाययोगः, १५ कार्मणकाययोगश्च । यदुक्तं प्राचीनचतुर्थकर्मग्रन्थे हरिभद्रसूरिकृततद्वृत्तौ च -
'तदेवमुक्तानि मार्गणास्थानेषु गुणस्थानकानि, साम्प्रतमेतेषु योगानभिधित्सुस्तानेव पूर्व स्वरूपतो निर्दिशति -