________________
पञ्चदशविधाः सञ्ज्ञाः
७२७ तत्र चिते-उवचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तथा चितमांसशोणिततया मोहनीयस्य कर्मण उदयेन मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेनमैथुनलक्षणार्थचिन्तनेनेति ४ । एताश्चतस्रः सञ्ज्ञाः समग्राणामेकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानां सत्त्वानां-जीवानामासंसार-संसारवासं यावद्भवन्ति, तथा च केषाञ्चिदेकेन्द्रियाणामप्येताः स्पष्टमेवोपलभ्यन्ते, तथाहि - जलाद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसञ्ज्ञा सङ्कोचनीवल्ल्यादीनां तु हस्तस्पर्शादिभीत्या अवयवसङ्कोचनादिभ्यो भयसञ्ज्ञा बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरि पादमोचनादिभ्यः परिग्रहसञ्ज्ञा कुरुबकाशोकतिलकादीनां तु कमनीयकामिनीभुजलतावगूहनपाणिप्रहारकटाक्षविक्षेपादिभ्यः प्रसूनपल्लवादिप्रसवप्रदर्शनान्मैथुनसझेति १४५ ॥९२३॥
इदानीं 'सन्नाओ दस'त्ति षट्चत्वारिंशदधिकशततमं द्वारमाह - आहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया ७ य । लोभो ८ ह ९ लोग १० सन्ना दसऽवेया सव्वजीवाणं ॥९२४॥ (छाया- आहारः १ भयं २ परिग्रहः ३ मैथुनं ४ तथा क्रोधः ५ मानः ६ माया ७ च।
लोभः ८ ओघः ९ लोकः १० सञ्ज्ञा दशापि एताः सर्वजीवानाम् ॥९२४॥) वृत्तिः - सञ्ज्ञायतेऽनयाऽयं जीव इति सञ्ज्ञा-वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राहारादिप्राप्तिक्रिया, सा चोपाधिभेदाद्दशविधा, तत्राहारभयपरिग्रहमैथुनसज्ञा अनन्तरमेव व्याख्याताः, तथा क्रोधवेदनीयोदयात्तदावेशगर्भा परुषमुखनयनदन्तच्छदस्फुरणादिचेष्टा क्रोधसञ्ज्ञा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसञ्ज्ञा मायावेदनीयेनाशुभसङ्क्लेशादनृतसम्भाषणादिक्रिया मायासञ्ज्ञा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसञ्ज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओघसञ्ज्ञा तद्विशेषावबोधक्रिया लोकसञ्ज्ञा, एवं चेदमापतितं-दर्शनोपयोग ओघसञ्ज्ञा ज्ञानोपयोगो लोकसञ्ज्ञा, एष स्थानाङ्गटीकाभिप्रायः, आचाराङ्गटीकायां पुनरभिहितंओघसञ्ज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसञ्ज्ञा लोकसञ्ज्ञा तु स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा - 'न सन्त्यनपत्यस्य लोकाः श्वानो यक्षाः विप्रा देवाः काकाः पितामहाः बर्हिणां पक्षवातेन गर्भ इत्यादिका' इति, अपरे तु ज्ञानोपयोग ओघसञ्ज्ञा दर्शनोपयोगो लोकसज्ञेत्येवमाहुः, एते दशापि अयं जीव इति सज्ञानहेतुत्वात् सञ्ज्ञाः सर्वेषां संसारिजीवानां ज्ञेयाः, सुखप्रतिपत्तये च स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियादीनां त्वेता अव्यक्तरूपा अवगन्तव्या इति १४६ ॥९२४॥