SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ७२८ त्रिविधानि गौरवाणि इदानीं 'सन्नाओ पन्नरसे 'ति सप्तचत्वारिंशदधिकशततमं द्वारमाह - आहार १ भय २ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिगिच्छा ८ । तह कोह ९ माण १० माया ११ लोहे १२ लोगे य १३ धम्मो १४ घे १५ ॥९२५॥ (छाया- आहारः १ भयं २ परिग्रहः ३ मैथुनं ४ सुखं ५ दुःखं ६ मोहो ७ विचिकित्सा ८ । तथा क्रोधः ९ मानः १० माया ११ लोभो १२ लोकश्च १३ धर्मः १४ ओघः १५ ॥९२५॥) वृत्तिः - प्रक्रमायातस्य सञ्ज्ञाशब्दस्य प्रत्येकमभिसम्बन्धादाहारसञ्ज्ञादय ओघसञ्ज्ञापर्यन्ताः पञ्चदश सञ्ज्ञा भवन्ति, तत्र दश पूर्वोक्तस्वरूपा एव, सुखदुःखसज्ञेसातासातानुभवरूपे मोहसञ्ज्ञा-मिथ्यादर्शनरूपा विचिकित्सासज्ञा-चित्तविप्लुतिलक्षणा धर्मसञ्ज्ञा-क्षमाद्यासेवनस्वरूपा, एताश्च विशेषानुपादानाद्यथासम्भवं सर्वजीवानामवसेयाः, इह क्वचिद् ग्रन्थे चतुर्विधाः सञ्ज्ञा उक्ताः क्वचिद्दशविधाः क्वचित् तु पञ्चदशविधाः ततः कासाञ्चित्पुनर्भणनेऽपि न पौनरुक्त्यमाशङ्कनीयं, तथा आचाराले विप्रलापवैमनस्यरूपां शोकसञ्ज्ञां प्रक्षिप्य षोडश सञ्ज्ञाः प्रतिपादिता इति १४७ ॥९२५॥' गुरुरेतासां पञ्चदशानां सज्ञानां स्वरूपमन्येभ्यः सुष्ठ कथयति । गुरोर्भावो गौरवं-अभिमानलोभाभ्यामात्मनोऽशुभभावः । तत् त्रिविधम्, तद्यथा - १ ऋद्धिगौरवं, २ रसगौरवं, ३ सातगौरवञ्च । यदुक्तं श्रमणप्रतिक्रमणसूत्रे - ____ तिहिं गारवेहि-इड्डिगारवेणं रसगारवेणं सायागारवेणं ।' (छाया- त्रिभिः गौरवैः - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण ।) एतेषां गौरवाणां स्वरूपमुपदेशमालासिद्धर्षिगणिकृततद्वृत्तिभ्यामेवं ज्ञेयम् - 'साम्प्रतमृद्धिगौरवं तद्द्वारेणाह - पवराई वत्थपाया-सणोवगरणाई एस विभवो मे। अवि य महाजणनेया, अहं ति अह इड्डिगारविओ ॥३२४॥ (छाया- प्रवराणि वस्त्रपात्रा-सनोपकरणानि एष विभवः मे । अपि च महाजननेता, अहमिति अथ ऋद्धिगौरविकः ॥३२४||) वृत्तिः - 'पवराई' गाहा, प्रवराण्युत्तमानि वस्त्रपात्रासनोपकरणान्यधिकृत्याऽसौ मन्यते एष विभवो मे, अयं समृद्ध्युपचयो मम, अपि चेत्यभ्युच्चये, महाजननेता
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy