SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ त्रिविधानि गौरवाणि ७२९ प्रधानलोकप्रभुरहमिति । अथैष एवम्भूतः ऋद्ध्या प्राप्तयोत्सेकेनाऽप्राप्तार्थप्रार्थनया च गौरवमात्मनो निबिडकर्मपरमाणुग्रहणेन गुरुत्वं तद् विद्यते यस्यासौ ऋद्धिगौरविक इति ॥३२४॥ अधुना रसगौरवमधिकृत्याह - __ अरसं विरसं लूहं, जहोववन्नं च निच्छए भोत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो ॥३२५॥ (छाया- अरसं विरसं रूक्षं, यथोपपन्नं च नेच्छति भोक्तुम् । स्निग्धानि पेशलानि च, मृगयते रसगौरवे गृद्धः ॥३२५॥) वृत्तिः - 'अरसं' गाहा, अविद्यमानरसमरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः । विरसं विगतरसमतिपुराणौदनादि । रूक्षं स्नेहरहितं वल्लचनकादि, यथोपपन्नं च निरुपधिलब्ध्या सम्पन्नमिति भावः, नेच्छति भोक्तुं, किं तर्हि ? स्निग्धानि प्रचुरस्नेहानि, पेशलानि मनोज्ञान्यन्नानीति गम्यते, मृगयते वाञ्छति रसगौरवे सति गृद्धो लौल्याध्मात इति ॥३२५॥ अधुना सातगौरवमधिकृत्याह - सुस्सूसई सरीरं, सयणासणवाहणापसंगपरो । सायागारवगुरुओ, दुक्खस्स न देइ अप्पाणं ॥३२६॥ (छाया- शुश्रूषते शरीरं, शयनासनवाहनाप्रसङ्गपरः । सातागौरवगुरुकः, दुःखस्य न ददाति आत्मानम् ॥३२६॥) वृत्तिः - 'सुस्सूसई' गाहा, शुश्रूषतेऽनेकार्थत्वाद् धातूनां प्रतिक्षणं संस्कुरुते शरीरं वपुः, शयनं तूल्यादि, आसनं मसूरकादि, तयोर्वाहना निष्कारणः परिभोगस्तस्यां प्रसङ्गो गाढमासक्तिस्तत्परस्तत्प्रधानः शयनासनवाहनाप्रसङ्गपर इति, सातं सुखं तेन गौरवमुक्तस्वरूपं तेन गुरुः, स एव गुरुकः सातगौरवगुरकः सन् दुःखस्य न ददात्यत्मानं, तद्वेषीति भावः ॥३२६॥ गुरुरेतानि त्रीणि गौरवाणि त्यजति ।। शल्यते अनेनेति शल्यम् । शल्यमिव शल्यम्, कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यत्वात् । तत् त्रिविधम् । तद्यथा - १ मायाशल्यं, २ निदानशल्यं ३ मिथ्यादर्शनशल्यञ्च । यदवाचि तत्त्वार्थाधिगमसूत्रस्य सिद्धसेनगणिकृतटीकायाम् -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy