________________
७३०
त्रिविधानि शल्यानि 'शलतीति शल्यम् । औणादिको यप्रत्ययः । अन्तर्भिनत्ति कायादि, तच्चावतिष्ठमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरिणः, तद्वन्मायानिदानमिथ्यात्वानि अन्तर्गतानि वर्तमानानि संयमस्वरूपभेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानावरणवीर्यहानि च विदधातीत्येतत् शल्यानीव शल्यानि । (७/१३)' ....
शल्यानां त्रिविधत्वमेवं प्रतिपादितं श्रमणप्रतिक्रमणसूत्रे - 'पडिक्कमामि तिहिं सल्लेहिं मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं ।' (छाया- प्रतिक्रामामि त्रिभिः शल्यैः मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन ।) एतेषां त्रयाणां शल्यानां स्वरूपमेवं प्रतिपादितमावश्यकसूत्रवृत्तौ
'प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदभिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया-निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना-यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यमानुषद्धिसंदर्शन श्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि - मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्या चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिलजमालिभिक्षूपचरकश्रावका अभिनिवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामायिके उक्तं, भिक्षूपचरक श्रावककथानकं तूपरिष्टाद्वक्ष्यामः ।'
गुरुरेतानि त्रीणि शल्यानि वर्जयति । इत्थं षट्त्रिंशद्गुणाकरो गुरुर्जीवान्संसारसागरान्मोचयतु ॥१९॥
इत्यष्टादशी षट्रिशिका समाप्तिमिता ।