________________
एकादशी षट्रिशिका
अथैकादशी षट्विशिकामाहमूलम् - पडिसेवसोहिदोसे, दस दस विणयाइचउसमाहीओ ।
चउभेयाउ मुणंतो, छत्तीसगुणो गुरू जयउ ॥१२॥ छाया - प्रतिसेवाशोधिदोषान्, दश दश विनयादिचतुःसमाधीन् ।
चतुर्भेदान् जानन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१२॥ प्रेमीया वृत्तिः - प्रतिसेवाशोधिदोषान् दश दश - दश प्रतिसेवा दश च शोधिदोषान्, विनयादिचतुःसमाधीन् - चतुरो विनयादिसमाधीन्, चतुर्भेदान् - प्रत्येकं चतुर्भेदभिन्नान्, जानन् - बोधन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - प्रतिसेवा - निषिद्धाचरणा । सा कारणभेदेन दशधा । तद्यथा - १ दर्पण, २ प्रमादेन, ३ अनाभोगेन, ४ ग्लानत्वे, ५ आपत्सु, ६ शङ्किते, ७ सहसाकारेण, ८ भयेन, ९ प्रद्वेषेण १० विमर्शेन च । यदुक्तं श्रीस्थानाङ्गसूत्रे तद्वृत्तौ च - 'दसविहा पडिसेवणा पं० तं० -
१ दप्प २ पमाय ३ णाभोगे ४ आउरे ५ आवतीसुत ।
६ संकिते ७ सहसक्कारे ८ भय ९ प्पयोसा य १० विमंसा ॥ (छाया- १ दर्प २ प्रमादा ३ नाभोगे ४ आतुरे ५ आपत्सु च ।
६ शङ्किते ७ सहसाकारे ८ भयप्रद्वेषाच्च १० विमर्शात् ॥) वृत्तिः -'दप्प' सिलोगो, दो-वल्गनादि, 'दप्पो पुण वग्गणाईओ' [दर्पः पुनर्वल्गनादिकः] इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः- परिहासविकथादिः, 'कंदप्पाइ