SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ एकादशी षट्रिशिका अथैकादशी षट्विशिकामाहमूलम् - पडिसेवसोहिदोसे, दस दस विणयाइचउसमाहीओ । चउभेयाउ मुणंतो, छत्तीसगुणो गुरू जयउ ॥१२॥ छाया - प्रतिसेवाशोधिदोषान्, दश दश विनयादिचतुःसमाधीन् । चतुर्भेदान् जानन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१२॥ प्रेमीया वृत्तिः - प्रतिसेवाशोधिदोषान् दश दश - दश प्रतिसेवा दश च शोधिदोषान्, विनयादिचतुःसमाधीन् - चतुरो विनयादिसमाधीन्, चतुर्भेदान् - प्रत्येकं चतुर्भेदभिन्नान्, जानन् - बोधन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः । व्यासार्थस्त्वयम् - प्रतिसेवा - निषिद्धाचरणा । सा कारणभेदेन दशधा । तद्यथा - १ दर्पण, २ प्रमादेन, ३ अनाभोगेन, ४ ग्लानत्वे, ५ आपत्सु, ६ शङ्किते, ७ सहसाकारेण, ८ भयेन, ९ प्रद्वेषेण १० विमर्शेन च । यदुक्तं श्रीस्थानाङ्गसूत्रे तद्वृत्तौ च - 'दसविहा पडिसेवणा पं० तं० - १ दप्प २ पमाय ३ णाभोगे ४ आउरे ५ आवतीसुत । ६ संकिते ७ सहसक्कारे ८ भय ९ प्पयोसा य १० विमंसा ॥ (छाया- १ दर्प २ प्रमादा ३ नाभोगे ४ आतुरे ५ आपत्सु च । ६ शङ्किते ७ सहसाकारे ८ भयप्रद्वेषाच्च १० विमर्शात् ॥) वृत्तिः -'दप्प' सिलोगो, दो-वल्गनादि, 'दप्पो पुण वग्गणाईओ' [दर्पः पुनर्वल्गनादिकः] इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः- परिहासविकथादिः, 'कंदप्पाइ
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy