________________
दशविधा प्रतिसेवा
५०७
पमाओ' [कंदर्पादिः प्रमादः ] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो - विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे - ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात्, अयमर्थः - क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च - 'पढमबीयहुओ वाहिओ व जं सेवे आउरा एसा' इति [ क्षुधातृष व्याधितो वा यत्सेवते एषा आतुरा], तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं 'दव्वाइअलंभे पुण चउव्विहा आवया होइ' इति [ द्रव्याद्यलाभे पुनः चतुर्विधा आपदो भवन्ति ।] तथा शङ्किते एषणेऽप्यनेषणीयतया 'जं संके तं समावज्जे' [ यत्शङ्क्येत तत्समापद्येत ।] इति वचनात्, सहसाकारे - अकस्मात्करणे सति, सहसाकारलक्षणं चेदम् -
'पुव्वं अपासिऊणं पाए छूढंमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥ ' इति । (छाया - पूर्वमदृष्ट्वा पादे क्षिप्ते यत्पुनः पश्यति ।
न शक्नोति निवर्त्तयितुं पादं सहसाकरणमेतत् ॥१॥
-
भयं च भीतिः नृपचौरादिभ्यः प्रद्वेषश्च मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च 'भयमभिउग्गेण सीहमाइ वत्ति' [ अभियोगेन सिंहादि वा भयं] इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च - 'कोहाईओ पओसो ' त्ति [क्रोधादिकः प्रद्वेषः ] तथा विमर्श: - शिक्षकादिपरीक्षा, आह च 'वीमंसा सेहमाईणं' इति [विमर्श: शैक्षादीनां ] ततोऽपि प्रतिषेवा - पृथिव्यादिसङ्घट्टादिरूपा भवति ।'
प्रतिसेवानां स्वरूपमेवं वर्णितं श्रीनिशीथभाष्ये तच्चूर्णौ च
-
'सा पडिसेवणा दुविहा
-
दप्पे सकारणंमिय, दुविधा पडिसेवणा समासेणं । एक्क्कावि यदुविधा, मूलगुणे उत्तरगुणे य ॥८८॥
चूर्णि: - 'दप्प' इति जो अणेगव्वायामजोग्ग-वग्गणादिकिरियं करेति णिक्कारणे, सो दप्पो । 'सकारणंमि य' त्ति णाण- दंसणाणि अहिकिच्च संजमादि- जोगेसु य असरमाणेसु पडिसेवति, सा कप्पो । समासेण संखेवेण । 'एक्केक्का वि' त्ति वीप्सा, दप्पिया दुविहा कप्पिया दुभेया । दप्पेणं जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा, कारणे वि जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा ॥८८॥